________________
116
अलंकारमणिहारे
स्यानर्थदानोत्कर्षप्रतीतेरन्या चाप्रस्तुतप्रशंसा । प्रकृताप्रकृतश्लेषश्वेत्येते ऽर्थालंकारा एकवाचकानुप्रविष्टतया संकीर्यन्ते ॥
यथावा
हरिगुणमसृणा कृतिरियमनादृता चेत्खलैः किमेतस्याः। लावण्यघना ललना जनुषान्धैन्निन्द्यते
यदि किमस्याः ॥ २१७४ ॥
जनुषान्ध इत्यत्र तृतीयाया अलुक् 'पुंसाऽनुजो जनुषान्ध इति च' इति निपातनात् । अत्र सर्व पद्यं दृष्टान्तालंकाररूपम् । पूर्वोत्तरार्धे प्रत्येकमन्यदोषेणान्यदोषानुदयलक्षणावज्ञालंकाररूपे । तेन एकांवाचकानुप्रवेश संकीर्णे ॥
यथावा
भगवन् स दैवनिहतप्रकृतिर्देष्टा तवेडितः कनु वा । नित्यमुदात्तप्रकृतिस्तवाञ्चिता नेडितः क्व वा
दृष्टः ॥ २१७५ ।।
सः दुष्कृतातिशयस्य दुर्वचत्वात्स इति निर्देशः । तव द्वेष्टा जनः दैवेन निहता नाशिता प्रकृतिः स्वाभाविक भगवच्छेषताद्याकारो यस्य तथोक्तस्सन् क्कवा ईडितः स्तुतः स्यात् सर्वत्र निन्दित एव स्यादिति भावः । नित्यं तत्र अञ्चिता पूजयिता उदात्तप्रकृतिः श्लाध्यस्वभावः क्वत्रा नेडितः सर्वत्र सर्वैस्स्तुत एव स्यादिति भावः । पक्षे द्वेष्टा द्वेष्टत्याकारकश्शब्दः सदैव नित्यमव निहता अनुदात्ता प्रकृतिः तृच्प्रकृतिः द्विषधातुरूपा यस्य स तथो कः । द्विषधातोरनुदात्तेषु परिगणितत्वादिति भावः । अतएव क्ववा इडितः इडागमेन संबद्धः 'एकाच उपदेशेऽनुदात्तात् ' इतीनिषे
-