________________
104
अलंकारमणिहारे
यथावा
तव भक्तैरतिशुचिभिर्नाना शुचिरवमतोऽनलो नूनम् । अहह विषाशनमुपयन् जीवनभङ्गाद्धि शान्ततां यातः ॥ २१५९ ॥ अतिशुचिभिः
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारशुचिश्शुचिः । - क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥
इत्युक्तप्रकारेण सर्वप्रकारशुद्धिशालिभिः त्वद्भक्तैः बहुभिरिति भावः। नाम्ना शुचिः नाममात्रेणैव शुचिरिति व्यवहार्यः न तु तद्वच्छुचितमः एक इति भावः । अनल: अवमतो नूनम् । अहहेति खेदे अद्भुते वा। विषाशनं विषोपलक्षितमन्नं उपयन् अश्ननिति यावत् । जीवनभङ्गात् जीवितभ्रंशात् शान्ततां विनिष्टतां यातः। हास्यवधारणे हेतौ वा ॥
वस्तुस्थितिस्तु अहेत्यव्ययं अहहत्येतदनतिरिक्तार्थकम् । हविषा आज्यादिना अशनं अभेदे तृतीया, हविरभिन्नमशनं उपयन् जीवनभङ्गात् जलतरङ्गात् शान्ततां निर्वाणतां यात इति। अत्रानलकर्तृकविषाशनादेरुपपादितश्लेषभित्तिकाभेदाध्यवसायानयूंढस्य भगवद्भक्तावमतत्वं न हेतुरित्यहेतोस्तस्य हेतुत्वेन संभावनायां चेदभिसंधिः तदा उत्प्रेक्षायां पर्यवसानं, उक्तविषाशनाद्यन्यथानुपपत्त्या तस्यावमतत्वकल्पनेचेत् अर्थापत्ती, विषाशनादिहेतुना अवमतत्वसाधने चेत्तात्पर्य तदा अनुमानालंकारे इति कविसंरम्भस्य नानामुखप्रसृततया अमीषां संदेहसंकरः॥