________________
'102
अलंकारमणिहारे
दिति भावः । अत्र कार्पण्यान्यधानुपपत्त्या भगवतः कारुण्यविधानं कल्पितमित्यापत्तिर्वा । अयं भगवान्मयि सर्वाधिक्येन कृपावान् मम प्रपदनाङ्गजातार्पयितृत्वादित्यनुमानं वेति संदेहः ॥
यथावा
सुदृगिति गर्वात् योऽपरमाह त्वत्तोऽपि कारणं जगताम् । आहुस्तमेव सुदृशश्शौरेऽपरकारणं किमाश्चर्यम् ॥ २१५७ ॥
हे शौरे! यः पुमान् सुहक् सुधीरिति चक्षुष्मानिति च गर्वात् त्वत्तोऽपि अपरं अन्यं जगतां कारणं आह ब्रवीति सुदृशः विएश्चित: चक्षुष्मन्तश्च तमेव त्वत्तोऽन्यजगत्कारणमस्तीति वदन्तं पुंमासमेव अपरकारणं अपरं त्वदन्यत्कारणं यस्य तं तथोक्तं अपरं अवरं अश्रेष्ठं कारणं यस्य तथोक्तमिति वा आहुः । किमाश्चर्यमिति लोकोक्तिः । यस्त्वत्तोऽप्यपरं कारणमस्तीति ब्रवीति तस्यापरकारणत्वमनाश्चर्यावहं किंतु युक्तमेवेति भावः । अतएव समालंकारः । यद्वा तं अपरकारणवादिनमेव अपरं च तत् कारणं चेति कर्मधारयः तं अपरकारणं आहुः । किमेतदाश्चर्य अत्याश्चर्यमिति भावः । अतएव विरोधाभासः । तं पुमांसमेव अपरकारणं अपगतो रः रेफः यस्मात्तं कारणं काणं आहुरिति वस्तुस्थितिः । ‘एको ह वै नारायण आसीत्, सर्वभूतस्थमेकं नारायण, कारणरूपमकारपरं ब्रह्मोम्' इत्यादिश्रुतिशतकण्ठरवप्रतिपादितभगवत्कारणत्वविरुद्धार्थाभिधायी काण एव न तु चक्षुष्मानिति सुदृशो वदन्ति । 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते । एकेन हीन. काण स्स्यात्' इत्यायुक्तरिति भावः। अत्र समविरोधाभासयोरेकत्रैव कविसंरंभाविश्रान्तेस्तयोस्सदेहसंकरः॥