________________
90
अलंकारमणिहारे
यदद्युत् इति निष्पद्यते शहदः तद्वाच्य इति यावत् । विनीलजलद इव द्योतत इति तथोक्त इति परिहारः । अत्र पूर्वार्धादीरिता उपमा उत्तरार्धोदीरितविभावानाया अङ्गं श्लेषोपस्कृतम् ॥ __ यथावा
भवतोऽम्बुजाक्ष भवता भवन्ति ये तारिता न जात्वपि ते। विन्दन्ति विपर्यासात्प्रकृतिविकारं पुनस्तदपि तान्ताः ॥ २१४१ ॥
हे अम्बुजाक्ष! ये जनाः भवता भवतः संसारात् तारिताः मोचिता इत्यर्थः। ते जनाः जात्वपि कदापि विपर्यासात् वैपरीत्यात् पुनरावृत्तेहेंतोरिति यावत्। प्रकृतिविकारं प्राकृतलोकं न विन्दन्ति 'एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते' इत्यादिश्रवणात् 'मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते' इति स्मरणात् 'अनावृत्तिश्शब्दात्' इति सूत्राच्चेति भावः । पक्षे तारिता इति शब्दः जात्वपि विपर्यासात् प्रातिलोम्यात् प्रकृतेः तारिता इति प्रकृत्यंशस्य विकारं अन्यधाभावं न विन्दति । यथापूर्वमेवावस्थानादिति भावः। तथाऽपि एवं प्रकृतिसम्बन्धातारितत्वेऽपि पुनः पूर्ववदिति भावः तान्ताः अशनायापिपासादिप्रयुक्तग्लानिशालिन इति विरोधः । तारिता इति शब्दो वैपरीत्येऽपि पूर्ववत्तारिता इत्येव निष्पत्तेस्तकारान्त एवेति परिहारः । अत्र श्लेषोपस्कृतं काव्यलि तथाविधस्य पुनरपि तान्ता इति पूर्वावस्थानुवृत्तिरूपपूर्वरूपस्याङ्गम् ॥
यथावात्वत्तेजोविजिगीषुस्तेन परास्तोऽक्षमः प्रती