SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 88 अलङ्कारमणिहारे यथावा कलयसि कमलविलोचन काञ्चन सुतरांहतिं हिताहितयोः। सर्वसमस्त्वं न कथं दर्वीकरशेखराद्रिनाथ भवेः ॥ १५६३ ॥ हिताहितयोः काञ्चनसुतरांहीत कलयसि । त्वं सर्वसमः कथमिव न भवेः । हितस्य जनस्य सुतरा शोभनतरा अंहतिः विश्राणनं काञ्चनस्य सुवर्णोपलक्षितविभवस्य सुतरांहतिः, तां 'अपसर्जनमंहतिः' इति विश्राणनपर्यायेग्यमरः । हन्ति दुरितमनया अंहतिः 'हन्तेरहश्च' इत्यौणादिके अतिप्रत्यये हन्तरंहा. देशः । अहितस्य तु काञ्चन अनिर्वचनीयां सुतरां अतिमात्रहति हिंसाम् । हन्तेः तिन् । 'अंहतिस्त्यागरोगयोः' इति हेमचन्द्रकोशपर्यालोचनायां तु यद्यपि अहितपक्षेऽप्यंहतिशब्दमेवादाय अंहति रोगमिति व्याख्यानेऽपि विवक्षितसिद्धिर्भवत्येव । तथाऽपि पदभगकृतविच्छित्तिविशेषसद्भावात्प्रागुक्तएवार्थश्श्रेयान् । या पुंवाक्येषु नानार्थकत्वस्य दोषाभावादर्थद्वयमप्यस्तु। शिष्टं स्पष्टम् । अत्र पूर्वार्धवाक्यार्थेन सर्वसमत्वमित्याद्युत्तरवाक्यार्थस्य समर्थनम् । इद हित हितावृत्तितौल्यलक्षणतुल्ययोगतया श्लेषप्रतिभोन्मीलितया दत्तहस्तमिति ध्येयम् ॥ यथावा एका कुवलयबन्धुर्जगतां बन्धुः परा तु दृग्यस्य । अस्मादपि को बन्धुनमतां संभाव्यतां दयासिन्धुः ॥ १५६४॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy