SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ काव्यलिङ्गसरः (६२) 87 यथावा आदौ सश्रीकमथ त्वत्पदवसुहारिविप्रतीपमलम् । कमलं कलमत्वमयच्छ्रितान्यलिङ्गं वनान्तरेऽवात्सीत् ॥ १५६२ ॥ . हे पझे! इति पूर्वपद्यादनुषज्यते । कमलं आदौ सश्रीकं सशोभं सवैभवं वा सत् अथ अनन्तरं त्वत्पदवसुहारि त्वचरणश्रीहरं त्वद्भवनरुचिहरं च सत् अत एव विप्रतीपः अप्रतिद्वंद्वः मलः पापं मालिन्यं च यस्य तत्तथोक्तम् । जगजननीपदसंपदपहारादन्यत्किमतिशयितं दुरितं स्यादिति भावः । विगतः प्रतीपः प्रतिकूलः यस्य तदिति विग्रहः । कलमत्वं चोरत्वं व्रीहिसस्यत्वं च अगात् प्राप्नोत् । ततः अनन्तरं श्रितं अन्यलिङ्ग चिहान्तरं येन तत्तथोक्तं वेषान्तरप्रतिच्छन्नपूर्वरूपमिति यावत् । वने क्वापि विपिने जले चावात्सीत् वसति स्म। पक्षे कमलमिति पदं आदौ सश्रीः कः यस्य तथोक्तं प्रकाशमानकवर्णमित्यर्थः । अथ विप्रतीपौ मलौ मकारलकारौ यस्य तत्तथोक्तं व्यत्यासित. मकारलकारमित्यर्थः । अत एव कलमत्वं कलमशब्दत्वं अगात् । श्रितं अन्यलिङ्गं लिङ्गान्तरं येन तत्तथोक्तम् । कमलशब्दत्वावस्थायां स्थितं क्लीबत्वं त्यक्त्वा पुल्लिङ्गतां प्राप्तमित्यर्थः । 'कलमो लेखनीचोरशालिकाक्षुरकेषु च" इति । कलमः पुंसि मेदिन्यां शाली पाटचरेऽपि च' इति विश्वमोदीकोशाभ्यां कलमशब्दस्य पुल्लिङ्गतानुशासनादीति भावः। अत्रापि पूर्वोदाहरणवदेव सर्व द्रष्टव्यम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy