________________
काव्यलिङ्गसरः (६२)
85.
एवेत्यर्थः । किंच वासुदेववामदेवशब्दयोः सुमतः सुकारमकाराभ्यां सार्वविभक्तिकस्तसिः । भेदः श्रौतः कण्ठरवेणोक्तः। अनयोः एवं विधयोः शब्दयोः अभेदं वदन् मूर्ख एवेत्यर्थान्तरमपि चमकारातिशयमाधत्ते । अत्र यो भातीत्यादिपूर्ववाक्यायन अनयोरभिदामित्यायुत्तरवाक्यार्थस्समर्थ्यते ॥
यथावा
वशिनं नारायणमिह वदन्ति सन्ततमनन्तनिगमान्ताः। यदि नशिवं तं ब्रूयाद्यःकश्चित्स प्रतीपहनूनम् ॥ १५६० ॥
अनन्ताः निगमान्ताः ‘सर्वस्य वशी। एको वशी' इत्यादयः उपनिषदः संततं नारायणं ‘एको ह वै नारायण असीत् । अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेय' इत्यादि. श्रुतिभिस्सर्वजगत्कारणत्वेन जोघुष्यमाणमिति भावः। वशिनं वशः प्रभुत्वं आयत्तत्वं वा । सोऽस्यास्तीति वशी। तं तथोक्तं वदन्ति 'वशो जनिस्पृहायत्नेष्वायत्तत्वप्रभुत्वयोः' इति विश्वः । 'जगद्वशे वर्ततेदम्' इत्यादिकमपीह स्मर्तव्यम् । तं एवं वशिनं सर्वेश्वरं यःकश्चित् नशिवं नशब्देन समासः । अकल्याणगुणं ब्रूयाद्याद स एव वक्ता प्रतीपर नूनं विरुद्धार्थद्रष्टैव । सर्वेश्वरत्वौपयिककल्याणगुणगणपरिपूर्णमप्यशिवं ब्रूयाश्चेत् तस्य श्रुतिप्रतिक्लार्थक्त्वे कस्संदेह इति भावः। यद्वा सर्व जगद्यदायत्तमिति ब्रवीतिश्रुतिः तस्य सर्वनियन्तुः 'नारायणाद्रुद्रो जायते' इति शिवस्यापि कारणतया तथैव श्रुत्या प्रतिपादितस्य 'शिवश्च नारायणः' इति कण्ठरवेणोक्तं कार्यकारणत्वनिबन्धनं नियाम्यनि