SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 84 अलङ्कारमाणिहारे यथावा जगतां जननि भवत्या क्रमादनालोकितौ यदि भवेतम् । नाकेशो वा सत्यं लोकेशो वाऽपि केशभूतौ स्तः ॥ १५५८ ॥ हे जगतां जननि ! नाकेशः इन्द्रो वा लोकेशः ब्रह्मा वा । 'हिरण्यगर्भो लोकेशः' इत्यमरः । क्रमात् यथापूर्वमनुग्रहात् अनालोकिती अकटाक्षितौ भवेतां यदि तदा केशभूतौ केशप्रायौ स्तः अतिवेलनिस्सारौ भवत इति भावः। पक्षे नाकेशशब्दो लोकेशशब्दश्च क्रमात् अनालोकितौ अविद्यमानौ ना लो वर्णों ययोस्तो अनालोको ‘शेषाद्विभाषा' इति कप् । अनालोको कृतौ अनालोकितौ ,भवेतां यदि क्रमेण नाकेशशब्दो नावणेन लोकेशशब्दो लोवर्णेन च विरहितौ चेदित्यर्थः । केशभूतौ केशशब्दतया निष्पन्नावित्यर्थः । अत्र विवक्षिते लक्ष्मीकटाक्षलक्षितत्वाभावप्रतिषेधे उत्तरवाक्यार्थस्य हेतुत्वम् ॥ यथावा यो भाति वासुदेवः प्रथते यश्चापि वामदेव इति । श्रौतस्सुमतो भेदोऽस्त्यनयोरभिदां वदन्न किं मूर्खः ॥ १५५९ ॥ __अनयोः वासुदेववामदेवयोः भेदः श्रोतः सुमतः ‘नारायणाद्रुद्रो जायते' इत्यादिश्रुतिप्रसिद्धतया सर्वसम्मत इत्यर्थः । अनयोरित्येतन्मध्यमणिन्यायेनोभयतोऽन्वेति । अनयोः एवं भिन्नत्वेन श्रुतिप्रसिद्धयोः अभिदां अभेदं वदन् जनः मूल् न किं मूर्ख
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy