SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 72 . - अलङ्कारमणिहारे यथावा त्वन्महिमपरिज्ञाने सर्वज्ञोऽप्यज्ञ एव देव भवेत् । पूर्ण तं वर्णयितुं चतुरास्योऽप्यचतुराम्य एव हरे ॥ १५४३ ॥ अत्रप्यन्येषां का वार्तेत्यापतदर्थान्तरमनुपात्तम् । विरोधाभाससंकीर्णत्वं तु विशेषः ॥ यथावा जाग्रति नाकीशे त्वयि भवेदकाधीनगो हि यो जन्तः। स भवेद्वालिश एव स्यादपि नगबालिकाधीशः ॥ १५४४॥ . ___ हे भगवन् ! अकं दुःखं पापं वा एषामस्तीत्यकिनः । ते न भवन्तीति नाकिनः तेषां देवानामिति तु हृदयम् । अधीशे अधीश्वरे त्वयि जाग्रत्यपि । 'षष्ठी चानादरे' इति सप्तमी । त्वामनाहत्येत्यर्थः । यो जन्तुः प्राणी अकाधीनगः अकस्य सांसारिकदुःखस्य अधानान् गच्छतीति तथोक्तः । आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ इत्यायुक्तरीत्या भवदुःखभाजो ब्रह्मादयः तान् श्रित इत्यर्थः । सः नगबालिकाधीशस्स्यादपि सर्वज्ञश्शम्भुरेव भवन्नपाति भावः । बालिश एव वैधेय एव भवेत् । निरतिशयानन्ददायिनमानन्दमयं भगवन्तमुपेक्ष्य कर्मवशगचतुराननाद्याश्रयकारी सर्वज्ञोपे मूर्ख एव स्यात् । किमुतान्ये इति भावः । पक्षे नगबालिकार्धाशशब्दः
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy