________________
56
अलङ्कारमणिहारे
अत्र भगवत्तनुरुचा अधरीकुतस्य तवजलदस्य तत्प्रतिकरणापटुतया तदीयशैलाधरीकरणम् । उदाहरणद्वयेऽपि अधरविधुप्रभृतिशब्दगतश्लेषोत्तम्भितस्साक्षात्प्रतिपक्षतिरस्काराक्षमस्य तदीयतिरस्कारस्तुल्य एव । अन्तिमे त्वर्थान्तरन्यासशेखरितत्वं विशेष इति ध्येयम् ॥
क्वचित्प्रतिपक्षसंबन्धिसंबन्धितिरस्कारेऽपीदं दृश्यते । यथा
नूनप्रयं स्वर्भानुछ्नशिराश्श्रीनिकेतनेन पुरा । तद्भासमनुविभातो विभावसोर्मण्डलं क्वचिद्रूसते॥
अनुविभात इति भाच्छब्दस्य षष्ठ्येकवचनं विभावसोरित्यस्य विशेषणं 'तमेव भान्तमनुभाति सर्वम् ' इति श्रुतिच्छायात्रानुसंहिता । , मण्डलं बिम्ब, राष्टमित्यपि गम्यते । शिष्ट स्पष्टम् । अत्र भगवल्लनशीर्षण तत्प्रतिकारानीश्वरेण स्वर्भानुना तदीय भासमनुविभासमानस्य भानोर्यन्मण्डलं तस्य तिरस्कृतिरिति प्रतिपक्षसंबन्धिसंबन्धितिरस्कृतिः ॥
यथावा
अवधीरितो मुखरुचा तव धवलांशुर्मदम्ब नयनसखम् । परिभूय नलिनमलिनस्तदाश्रितांस्तत्र निगळयति रात्रौ ॥ १५१३ ॥
तवेत्येतत् मुखरुचा नयनसखं इत्युभयत्रापि संबध्यते । अत्र साक्षात्प्रतिपक्षभूतजगजननीवदनसंबन्धि नयनं, तत्सखतया तत्संबन्धि नलिनं, तत्संबन्धिनोऽळिनः, तत्तिरस्कृतिरभिहितेति पूर्वस्माद्विच्छित्तिविशेषः॥