________________
वक्रोक्तिसरः (१६)
311
अत्र इन्द्रोऽपि मया ग्रसितुं शक्य इत्यभिप्रायेण मुरेणोक्तस्य कबळयितुमित्यादेः शुना शुनकसदृशेन त्वया सीरः अर्कः शुना शुनकेन हलं वा ग्रसितुं न शक्यमिति · भगवता अर्थान्तरस्य कल्पनया प्रत्युत्तरं प्रतिपादितम् । ‘सीरोऽर्कहलयोः पुंसि' इति मेदिनी । सर्वमिदमविकृतश्लेषवक्रोक्तेरुदाहरणम् ॥
विकृतश्लेषवक्रोक्तिर्यथा -
श्लेषस्याविकृतत्वं च समाभिव्याहृताक्षरापरित्यागनार्थवर्णनम् । विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्यां भवति ॥
असमस्सुशोभमानो जगदीशो वामदेव एवा. यम् । असमस्सुशोभितश्चेत्स एव जगदीश्वरो न संदेहः ।। १९३५॥
इदं शैववैष्णवयोस्संवादरूपं पद्यम् । तत्र असमः असदृशः सुशोभमानः देदीप्यमानः अयं अस्मदुपास्यः वामदेवः विरूपाक्ष एव जगदीश इति शैवेनोक्तम् । वैष्णवेन तु-वासुदेव एव जगदीश इत्यभिप्रायेण समः मकारसहितः स न भवतीत्यसमः सुशोभितः च्यावितमकारस्थानकेन सुकारेण शोभितश्चेत् स एव वामदेवो जगदीशो न संदेह इति । वामदेवशब्दे मकारोद्वापं तत्रैव सुकारावापं च विधायार्थान्तरं श्लेषण परिकल्पितम् ॥
यथावाबाणासुरवरदायी काशीपुरवहनपटुरयं परमः। वेदं पठात्र परमः क इति तदा वेत्सि किंनु बहु. जल्पैः ॥ १९३६ ॥