________________
वक्रोक्तिसरः (९६)
309
माणः कथं नन्ददिति वक्रोक्तचैव स्वाभीप्सितं भगवता प्रकाशितमिति वक्रोक्तयुजीविता वक्रोक्तिरियम् ॥
यथावा
मन्ये त्वं व्युतधीर्यन संलपन्त्या मयाऽऽळि संलपसि । अच्युतधियं वृथा मां व्युतधियमात्थाळि सत्यमच्युतधीः ॥ १९३१ ॥
इदं कयोश्चिवजसुभ्रवोरुक्तिप्रत्युक्तिरूपं पद्यम् । अत्र मन्ये इत्यादि पूर्वार्ध किमपि ध्यायन्ती कांचित्सखी प्रति कस्याश्चित्सख्या उक्तिरूपम् । च्युतधीः गळितमतिः निश्चेतनेत्यर्थः । उत्तरार्धे अच्युतधियमित्यादि आत्थेत्यन्तं अन्यस्यास्तां प्रत्युक्तिः । आळीत्याद्यवशिष्टवाक्यं पुनस्तां प्रति वदन्तीं प्रत्याधाया उक्तिः। अत्र अजुबुद्धया कमपि वृत्तान्तं प्रत्सुवत्या कयाचिप्रतिवाचमददानां सखी धीक्ष्य नूनं त्वं निश्चेतनाऽसीत्युक्तम् । तया च नाहं निश्चेतनेत्यभिप्रायेण अच्युतधियं मां वृथैव च्युताधियं ब्रवीषीति प्रत्युक्तम् । पुनस्तया सखि सत्यं त्वं अच्युतधीः कृष्णानुषक्तहदयैवासि अन्यथा संलपन्तीं मां कथं . न संलपसीत्यर्थान्तरं कल्पितम् ॥
यथावा
सारसनामाश्लेषं सखि घटय ममेति मुग्धया गदिते । घटयितुमेवोद्योगो ममेति सस्मितमुवाच सैरन्ध्री ॥ १९३२॥ __अत्र मुग्धया कयाचिद्गोपबालिकया प्रसाधयित्रीं शिल्पकारिकां प्रति ऋजुबुद्धया सारसनस्य मेखलायाः आभायाः