SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ परिवृत्स्यलङ्कारसरः (६४) 19 द्वितीयपरिवृत्तिर्यथा-- दत्वा नश्वरभौतिकतनुमीदृशभूतदेहमाददताम्। वाराणसीजनानां नारायण को नु वा भवेल्लाभः॥ नश्वरी भौतिकी पञ्चभूतात्मिकां तनुम् । ईदृशं नश्वरं पश्वभूतात्मकं च शरीरम् । वस्तुतस्तु 'पिाशाचो गुह्यकस्सिद्धो भूतोऽमी देवयोनयः' इयुक्तभूतयोनिविशेषशरीरमित्यर्थः। पा. श्वभौतिकत्वं तस्याप्यस्त्येवेति प्रागुपदर्शितार्थस्वीकारेऽपि यद्यपि विवक्षितसिद्धिर्भवत्येव । तथापि अनन्तरोक्तार्थः श्लेषेण चमत्कारातिशयं पुष्णातीत्यवधेयम् । प्रसिध्यति हि वारणासीवासिनां शरीरन्यासानन्तरं भूतदेहप्राप्तयवश्यभावः । अत्र न्यूनत्वेन समयो तिकशरीरयोः परिवृत्तिः। श्लेषाद्यनुप्राणितत्वं च पूर्ववदेव । वाराणसानिवासीनां त्वदभिव्यक्तिक्षेत्रपुरवासिनामिवावसाने दिव्याप्राकृतदेहलाभो न भविष्यतीति भावः ॥ यथावाभस्मान्तवर्मदानानाहशतनुमेव यगिरिशभताः। आददते तद्भगवंस्तुषवितरणतः फलीकरणलाभः॥ १४४२॥ भस्म अन्तः अन्ते वा यस्य तत् भस्मान्तं वर्म गात्रं तस्य दानात् । 'अथेदं भस्मान्त शरीरम्' इति श्रुतेः 'कळेबरं विट्कृमिभस्मसंज्ञितम्' इति पुराणवचनाच्च दाहे भस्म संज्ञितत्वं कळेबरस्येति बोध्यम् । भस्मस्वरूपमिति वा। ताहशतनुमेव भस्मान्तशरीरमेवेति न्यूनतया समयोः परिवृत्तिः भस्मना अन्तं रम्यं भस्म अन्ते अन्तिके यस्योत वेति तु तत्वम् ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy