________________
262
अलङ्कारमणिहारे
तु स्वगुणपरित्यागपूर्वकोऽन्यगुणपरिग्रहः । इह तु स्वगुणमपरित्यज्यैव तुल्यगुणादन्यस्मात् पृथगविभाव्यमानतेति ततो भिदा ।
यथा-
केयूरयुगळखचिता मायूररुचिर्हरिन्मणीश्रेणी | हरिदिव्यविग्रहरुचा लब्धाद्वैता विविच्य नाग्राहि ।। १८४५ ।।
यथावा
ताटङ्कवज्ज्ररुचिभरकबळितरूपा तवाम्ब रदनाळी । निपुणनिरूपणकुशलैरपि नैव पृथक्तया जनैर्जज्ञे || १८४६ ॥
अत्राद्येउ दाहरणे प्रस्तुत भगवद्दिव्यविग्रह रुच्यपेक्षया हरित गुणसाम्यादप्रस्तुतगारुत्मत मणीश्रेण्याः पृथगविभाव्यमानतोक्ता । द्वितीये तु अप्रस्तुतात्ताटङ्कवज्ररुचिभरात् धवलगुणसाम्यात्प्रस्तुताया लक्ष्मीरदनावळ्याः पृथगप्रतीयमानता निबद्धेति भेदः । एवंच एतन्मते 'पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्' इत्यन्यदीये पद्ये 'वर्षावनविहृतौ ' इत्यास्माकीने पद्ये च मुखपद्मादीनां भेदावभासेऽपि व्यावर्तकास्फुरणादलंकारान्तरेण भाव्यम् । स्वरूपातिरोधानेन मीलितासंभवात् भेदातिरोधानेन सामान्यस्याप्यसंभवात् । यद्वा गुणसाम्याद्विशेषाग्रह इति सा - मान्यालंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाणे इति कल्पयित्वा तदवान्तरभेदेन भा - व्यम् । प्राथमिके ' न दृश्यते भेद एव सादश्याद्यदि मीलतम्' इति मते—