________________
260
अलङ्कारमणिहारे
यथावा
वर्षावनविहृतौ घनवलये त्वां वृषगिरीश जलघिसुता । तां च न काञ्चनवर्णी विद्युत्सु भवाविविच्य नागृह्णात् ॥ १८४२ ॥
मीलितालंकारे सर्वात्मना भेदस्यैव सामान्यधर्मनिबन्धनस्य तत्तद्व्यक्तित्वादिविशेषनिबन्धनस्य चानुपलम्भ:, सामान्ये तु व्यक्तीनां परस्परभेदावबोधेऽपि परस्परव्यावर्तक धर्मानुफलम्भमात्रं सादृश्यादुपनिबध्यत इति भिदा । मीलितालंकारोदाहरणे हि निसर्गगौरालक्ष्मीकपोलफलका देवैस्त्वन्तरत्वेनागन्तुकं हरिद्रानुलेपनगौरत्वादिकं न भासते । सामान्योदाहरणे तु भगवलक्ष्म्योघनविद्युतोश्च व्यक्त्यन्तरत्वेन भानमस्त्येव । किंतु अयं भगवान् अयं घनः इयं लक्ष्मीः इयं विद्युदिति विशेषस्तु नोपलक्ष्यते । अतएव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता ॥
यथावा
मधुमथन श्लथमलिके तवालकं तिलकमपि जनो भिन्नम् । अतिमात्रभिदायामपि सहसा बहुवर्णसाम्यतो नावैत् ।। १८४३ ॥
हे भगवन् ! जनः तव अलिके ललाटे लथ: अलकं तिलकं मृगमदतिलकं च अतिमात्रभिदायां सत्यामपि अतिवेलभेदे सत्यपि पक्षे अवर्णतिवर्णाभ्यां भेदे सत्यपीत्यर्थः । बहु यत् वर्णस्य नीलवर्णस्य साम्यं तस्मात् पक्षे बहूनां लकारादीनां वर्णानां साम्यात् भिन्नं विशेषवत् नावैत् । अत्रालकतिलकयोर्भिन्नयोरेव सतोर्वर्णसाम्यान्न विशेषग्रहणम् । चमत्कारान्तरं तु पूर्वस्माद्विशेषः ॥