SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सामान्यसरः (८३) 259 तामरसनयनम् । कृतपदमप्यम्ब स्वयि कुत एव नतेष्वनुग्रहं विद्याम् ॥ १८४० ॥ अतएव स्तब्धः स्वात्मानमप्रदर्शयन्नवस्थित इत्यर्थः। अत्राचे काकुत्स्थहगन्तेन स्वस्य नैसर्गिकेण स्वनिगृह्यक्रोधोदयसाधा. रणेन चारुणिमरूपेण लिङ्गेन क्रोधोदय आगन्तुको निगृह्यते । द्वितीये तु श्रीकपोलफलकेन स्वस्य स्वतस्सिद्धेन स्वगोपनीयरोषसाधारणेनारुण्येन लिङ्गेनागन्तुको रोषो निगृह्यते । तृतीये तु श्रियो वदनन स्वस्य स्वाभाविकेन स्वनिगृहितव्यानुग्रहसाधारणेन स्मितललितत्वादिना लिङ्गेन स्वाभाविकोऽनुग्रहो निगृह्यत इति विशेषः ॥ यथावा___ धनुषि रवावुषसि हरिं वृषशिखरिण्यञ्चतां सरोमाञ्चम् । भक्तिः कृतास्पदाऽपि व्यक्तिं नोपैति हदि सकम्पानाम् ॥ १८४१ ॥ अत्रागन्तुकहेमन्तसमयजनितपुलककम्पलक्षणनिगूहितव्य - साधारणधर्मरूपेण लिङ्गेन भक्तिः स्वरूपत एव तिरोधीयते ॥ इत्यलकारमणिहारे मीलितसरो द्वयशीतितमः. अथ सामान्यालंकारसरः (८३) न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् ॥ अनेकस्य वस्तुनस्साम्येन यत् व्यावर्तकधर्मानुप लम्भः तत्सामान्यं नामालंकारः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy