________________
रत्नावळीसरः (७७)
णानन्तरमेव हे नाथ ! सुगुणमयः कारुण्यवात्सल्यादिगुणप्रचुरः त्वं कालिका मेघरेखा सेव शीतला तया दशा ध्यातुः मे तीव्रं उग्रं भवदवं शयम । तीव्रं शयमेति वा योजना । अत्र 'अयोध्या मधुरा' इत्यादिप्रसिद्धस्य पुरीसप्तकस्य किंचिद्वैकल्येन क्रमातिक्रमेण च वर्णनम् ॥
243
-
यथावा
शुभभा रतीशजननी जलधिभवा नीरजातवनभवना । क्रोधवशचीरवासश्शापध्वस्तेन्द्रविभवदा जयतात् ।। १८१० ।।
अत्र पुराणादौ सहपठितानामपि भारतीभवानीशचीनां क्रमप्रसिद्धिरहितानां न्यसनम् ॥
यथावा
विधिवामदेववनिताविनुतौ सुभगौ तमोविजयनिपुणौ । चरणौ मूर्ध्नि निधत्तां ममाब्धिजा बालिकाऽतिसुकुमारौ ॥ १८११ ॥
इत्यलंङ्कारमणिहारे रत्नावळीसरः सप्तसप्ततितमः .
अत्र-
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । कात्यायनो गौतमश्च सुयज्ञो विजयस्तथा ॥
इति प्रसिद्ध सहपाठानामपि क्रमप्रसिद्धिविधुराणां वामदेव
गौतमविजयजाबालीनां चतुर्णी वर्णनम् ॥