SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 16 अलङ्कारमाणहारे न्यप्रवेशधीरशब्दस्तकारविगमे परस्वसैन्यप्रवेशधीर इति निष्पयेतेत्यर्थः । पूर्व स्तेन एव सन् भवत्कटाक्षवीक्षितश्शूरो भवेदिति भावः । 'शौर्य नाम असहायस्यापि भीमे परबले स्वबल इव निर्भयप्रवेशसामर्थयम्' इति गद्यभाष्ये आचार्याः । तदेतदुक्तं परस्वस्तैन्येत्यादिना । परस्वस्य अन्यावेत्तस्य स्तैन्ये चौर्य प्रवेशः तस्मिन् धीर. विद्वान्, परेषां स्वेषां च सैन्ये प्रवेशः तस्मिन् धीरः धैर्यवानित्यर्थः । अत्रैकस्नेिवाधारे चोरत्वधीरत्वयोः पर्यायेण वर्णनम् ॥ यथावात्वद्विश्लिष्टा सीता सुतरान्तरलत्वमेत्य दाशरथे। अथ शुभगुणवाराशिस्थिरान्तरासीत्त्वया विशिष्टैव ॥ १४३७ ॥ हे दाशरथे! शुभगुणवाराशिः सीता त्वद्विश्लिष्टा सती सुतरां तरलत्वं चञ्चलचित्ततां एत्य अथ अनन्तरं त्वया विशिष्टैव त्वत्सं. श्लेषं प्राप्तव स्थिरान्तरा स्थिरं अन्तरं मनो यस्यास्सा तथोक्ता आसीत् । पक्षे विश्लिष्टेति शब्दव्यक्तिः सुतरा अतिशोभना अन्तः मध्ये अ त्वं अविद्यमानलकारतां एत्य शुभाः गुणानां वाराः समूहाः यस्यास्सा तथोक्ता । इदं सीताविशेषणमेव । अन्तः मध्ये शिस्थिरा शिः शिवर्णः स्थिरो यस्यां सा तथाविधा सती विशिष्टवासीत् । विश्लिष्टाशब्दः लकारोत्सारणे शिवर्णस्थैर्ये च विशिष्टेति भवतीत्यर्थोऽपि चमत्कारी । अत्रैकस्मिन्नेव सीतारूपाधारे तरळत्वस्थैर्यरूपाधेययोः क्रमेण निवन्धः । उदाहरणदयेऽपि विशेषस्स्पष्ट एव ॥ इत्यलंकारमणिहारे पर्यायसरत्रिपञ्चाशः.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy