________________
उल्लाससरः (७१)
177
जानाति । दाक्षिण्येन प्रकाशं शुनकतुल्यं वक्तुमनीशोऽपि चेतसि तथा जानीयादेवेति भावः । पक्षे आद्यन्ते प्रथमचरमे अक्षरे वर्णे वैररूपे यस्य तं तथोक्त आदो वै इति वर्णेन अन्ते र इति वर्णेन च युक्तमित्यर्थः । वैश्वानरं वैश्वानरशब्दं अन्तश्श्वानमिति समस्तं पदम् । अन्तः वैर इत्याकारकवर्णद्वयमध्ये श्वान इत्याकारकवर्णद्वयं यस्य तं तथोक्तं को नाम न जानाति ; सर्वोऽपि वैश्वानरशब्दः ईदृगिति जानात्येवेति भावः। अत्र भगवतोऽखिलसुहृत्त्वादिगुणेन तद्वैरस्य दोषत्वानुवर्णनम् ॥
यथावात्वदपाङ्गविपर्यासानहुषो नाके महाशयोऽपि भवन् । अन्तेच्युत अर्जिततां प्राप्तोऽपि महाशयुर्बभवाम्ब ॥ १७०४ ॥
हे अम्ब! नहुषः नाके महाशयः महेच्छः भवन्नपि त्रैलोक्यैश्वर्य भजन्नपीति यावत् ‘महेच्छस्तु महाशयः' इत्यमरः । अप्रति हतेच्छो भवन्नपीत्यर्थः। ऊर्जिततां सर्वप्रकारबलवत्त्वं प्राप्तोऽपि त्वदपाङ्गीवपर्यासात् अन्ते पर्यवसाने च्युतः स्वर्गाद्भष्टस्सन् महांश्वासौ शयुश्च महाशयुः अजगरो बभूव । 'अजगरे शयुर्वाहस इत्युभो' इत्यमरः । अन्यत्र महाशयशब्दः अन्ते अच्युतः च्युताकारः अर्जिततां उवा उकारेण ऊर्जिततां प्राणिततां उकारघटिततामिति यावत्। प्राप्तोऽपि अपिस्समुच्चये । न केवलमन्ते अकारव्युततामेव किंतु तत्रैव उकारसंबन्धतां च प्राप्त इत्यर्थः । महाशयुरिति निरपद्यतेति भावः। अत्र श्रीकटाक्षनिष्ठमहोदारत्वादिगुणेन तद्विपर्यासहेतुकमहाशयुत्वदोषो नहुषस्य निबद्धः ॥
अन्यदोषेणान्यगुणधानं यथाALANKARA-III,