SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 176 अलंकार मणिहारे ननु नाथ हे भगवन् ! कश्चित् अधिनाथः यः कश्विदैश्वर्यशाली जनः विधिर्भवतु ब्रह्मैव भवत्विति लोकोक्तिः । किं तावतेति भावः । त्वयि मनाक् पराचीने पराङ्मुखे सति अनाथ एव भविता । त्वय्युदासीने कोऽन्यो नाथस्स्यादिति भावः । पक्षे अधिनाथशब्दः विधिः विगतत्रिवर्गश्चेत् अनाथ इति संपद्येतेत्यर्थः । अत्र मनाग्भगवत्पाराङ्मुख्यदोषेणाधिनाथस्य विधेरपि कस्यचिदनाथत्वरूपदोषाधानम् । उपदर्शितश्लेषचमत्कारस्तु पूर्वेभ्यो विशेषः ॥ अन्यगुणेनान्यस्य दोषाधानं यथाअतिवेलसहनशीला विपुलेव तवान्तरङ्गरीतिरिति । वारंवारं मनुजास्स्वैरं विधदति किलांहसां भारम् ॥ १७०२ ॥ अत्र आत्यन्तिक भगवत्क्षमागुणेन दुर्दान्तानां स्वैरदुरितभारकरणरूपदोषाधानम् ॥ यथावा आद्यन्ताक्षरवैरं त्वय्यखिलसुहृत्तमे रमेश वि भो । वैश्वानरमप्यन्तश्श्वानं को नाम भुवि न जानाति ।। १७०३ ॥ हे विभो रमेश ! अखिलसुहृदि 'सर्वस्य शरणं सुहृत्' इति श्रुत्युद्घोषित सर्व सौहार्द त्वयि आद्यन्तावभिव्याप्य आद्यन्त यावच्छरीरपातमित्यर्थः । अक्षरं अक्षय्यं वैरं विरोधः यस्य तं तथोक्तं वैश्वानरमापे वह्नितुल्यमपीति यावत्, अतिपवित्रमपीति भावः । श्वानं सारमेयसदृशं अन्तः मनसि को नाम भुवि न
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy