SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्याससरः (६३) . 127 ध्वस्तम् । जयति जलेशयमम्ब त्वदाश्रितानां कदा परिभवस्स्यात् ॥ १६२२ ॥ ... जलेशयं कमलं जलेशयमिति पदं च । आद्यन्तयोस्समययोः अद्यन्तभागयोश्च प्राप्तः जयः उत्कर्षः यस्य तत्तथोक्तं, प्राप्ती जयौ जकारयकारी येन तदिति च । मध्येऽपिच मध्य. कालेऽपि लेशतोऽपि लवमात्रतोऽपि अविध्वस्तं भ्रंश नप्राप्त, पक्षे लेशतः ले श इंति वर्णाभ्यां अविध्वस्वं अध्वस्तलेशवर्णमित्यर्थः । जयति सर्वोत्कर्ष प्राप्नोति। शब्दपले जलेशयशब्दः एवंविधो जयतीत्यर्थः ॥ यथावा__ नहुषस्स वासवस्सन्नवलेपात्स्वान्त एव हसितोऽम्ब । वाहसावमविन्दत्त्वदपाङ्गविपर्यये किमिव न स्यात् ॥ १६२३ ॥ . हे अम्ब ! सः प्रसिद्धः नहुषः वासवस्सन् इन्द्रो भवन् सन् अवलेपात् त्रैलोक्यश्वर्यमदात् स्वान्त एव मनस्येव 'स्वान्तं हृन्मानसं मनः' इत्यमरः । हसितः मत्तुल्यः कोऽन्योस्तीते हस. निति गर्वानुभावोक्तिः । कर्तरि क्तः । वाहसभावं अजगरत्वं अजगरश्शयुर्वाहस इत्युभौ' इत्यमरः। अविन्दत् । पक्षे वासवशब्दः वस्य वकारस्य लेपः संबन्धः न वलेपः अवलेपः तस्मात् वकारसंबन्धाभावं प्राप्येति ल्यब्लोपे पश्चमी । वकारलोपेन वास इति निष्पन्नः स्वान्त एव स्वस्य अन्ते मध्यभाग एव हसितः हेन हकारेण सितः बद्धस्सन् मध्ये हकारघटितस्सन्नित्यर्थः ।।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy