________________
122
अलंकार महा
यः पुमान् परमपुरुषाश्रितः सः परेषां वैरिणां वाग्भिश्शरेश्च । पक्षे शरतुल्याभिर्वाग्भिः बाधितोऽपि क्षतोऽपि दृढभावात् भगवदनुग्रहजनितशरीरदाढर्यात्तद्भक्तिदाढर्थाश्च पुरेव भगवदाश्रयणात्पूर्वमिव परं अरुबा व्रणेन 'व्रणोऽस्त्रियामर्मिमरुः' इत्यमरः । श्रितो न भवेत् । प्रह्लादादेखि तस्य भगवत्प्रसादात्परैः प्रयुक्ताश्शरा न व्यथाले रामपि विधातुमीशरिन्निति भावः । पक्षे परमया रुपा कुधा श्रितो न भवेत् 'न क्रोधो न च मात्सर्यम् ' इत्यायुक्तरीत्या क्षोदिष्ठमर्मस्पर्शिवाग्भिस्तस्य क्रोधानुदयादिति भावः । तथाहि तथाविधः महदाश्रितः न सीदेत् नावसीदेदित्यर्थः ॥
पक्षे परमपुरुषाश्रितशब्दः न विद्यते पुः पुवर्णः यस्य नपुः नशब्देन बहुव्रीहिः । पुवर्णरहित एवं परमरुषाश्रित इति जायते । तथाविधः पुवर्णविधुरतां प्राप्तोऽपि परमपुरुषशब्दः न हि सीदेत् निरर्थकतया नावतिष्ठेत किंतु अर्थवत्तबैव जागृयादिति भावः ॥
-
यथावा
इन्दुः कन्दुरपि त्वन्मुखवसुहारी क्षयं कमपि यातः । यो दुस्थितिमान् स्वान्ते स भवतेि भावान्तरेऽपि दुस्थितिमान् ॥ १६१५ ॥
हे भगवन् ! इन्दुः त्वन्मुखवसुहारी वदनप्रभाहरणशीलः त्वत्प्रभृतिधनहरणशलि इति च गम्यते । ताच्छील्ये णिनिः । अतएव कमपि क्षयं सकलकलापचयरूपं राजयक्ष्माणं यातस्सन् कन्दुरपि कन्दुर्भवन्नपि कन्दुर्नाम अयोमय उत्तानो वर्तुलाकारो होळकाद्यपूपनिर्वर्तनोपकरणभूतो वस्तुविशेषः । 'क्लिबेऽम्बरीषं