________________
अर्थान्तरन्याससरः (६३)
121
यथावात्वत्पदरुचिविद्वेषाद्विभङ्गमभ्येत्य विद्रुमरशौरे । द्रुम एव सर्वधाऽभूत्त्वद्वेषस्येदृशो हि परिणामः ।।
विद्रुमः प्रवाळः विद्रुमशब्दश्च । विभङ्गं विशेषेण पराभवं सर्वतोमुखं परिभवमिति यावत् । पक्षे वि इत्याकारकवर्णस्य नाशं अभ्येत्य । दुम एव तरुरेव पक्षे द्रुमशब्द एवं अभूत् त्वयि त्वद्विषये द्वेषस्य परिणामः परिपाकः ईदृशो हि । स्थावरजन्मप्रापणमेव हि ॥
यथाव। -
फालेन तव परास्तो बालेन्दुर्भवति बहुळ. गळदोजाः। हालिकसंघर्षी मृदुरयते क्षयमेव देवि हरिदयिते ॥ १६१३ ॥
बालेन्दुः अभिवृद्धो भवन्नपि बहुलगलदोजाः अतिमात्रभ्रश्यत्तेजाः भवति बहुले कृष्णपक्षे गलदोजाः भवतीति वस्तु स्थितिः । हलं प्रहरणमस्य हालिकः तेन संघर्षी मृदुः शरीरतश्शौर्यंतश्व मृदुलः । पक्षे हा अलिकसंघर्षीति छेदः अलिक ललाटं तेन संघर्षात्यर्थः । शिष्टं स्पष्टम् ॥
यथावा
परमपुरुषाश्रितो यः परवाक्छरबाधितोऽपि दृढभावात् । न पुरेव स परमरुषाश्रितो भवेन्नहि तथाविधस्सीदेत् ॥ १६१४ ।। ALANKARA_III.
16