________________
काव्यलिङ्गसरः (६२)
101
अत्र श्रीनिवासहृदयकठोरत्वं प्रस्तरवरेत्यादि-अरिंगणेत्यादिपदार्थाभ्यां समर्थितम् ॥
यथावा ममैव श्रीहयवदनस्तुती
अमृतकरे वससि हरे क्षीररुचिस्त्वं निसर्गतो मधुरः। तव सैन्धव इति वादो भविता कण्ठोपरीत्युचितमेव ॥ १५८२ ॥
हेहरे! श्रीहयवदन! अमृतकरे सुधाविधायके पीयूषकिरणे इति तु तत्त्वम् । वसप्ति । अनेनागन्तुकं माधुर्यमुक्तम् । निसर्गतः स्वभावत एव मधुरः मधुररसविशिष्टः जगतां प्रिय इति तु तत्वम् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । अत एव क्षीरस्य दुग्धस्य रुचिः स्वादिमेव रुचिः स्वादिमा यस्य स तथोक्तः । तव ईदृशस्य सैन्धवः लवणमिति वादः उक्तिः कण्ठोपरि कण्ठादूर्ध्व प्रवृत्तः अहृदय एव। न तु हृदयपूर्वक इत्युचितमेव । अतिमात्रमधुरस्य लवणमिति कथनं कथं मनःपूर्वकं भवेदिति भावः। परमार्थतस्तुसैन्धवः अश्व इति वादः कण्ठादुपरि तव हयास्यत्वादिति भावः । ‘सैन्धवो लवणे न स्त्री हये ना सिन्धुजे त्रिषु' इति रत्नमाला । अत्र अमृतकरे वससिति वाक्यार्थेन क्षीररुचिः निसर्गतो मधुर इति पदार्थाभ्यां च सैन्धवतावादस्य कण्ठादुपरि प्रवृत्तत्वौचित्यरूपस्य समर्थनमिति विशेषः ॥ क्वचित्पदार्थवाक्यार्थौ परस्परसापेक्षौ हेतुभावं भजतः।यथा
तज्जयतु कनकमकुटं यजगदीशो बिभर्ति शिरसैव । कनकगिरिणाऽस्य तुलना सकलसुरैरप्यधःकृतेन कथम् ॥ १५८३॥