________________
100
अलङ्कारमणिहारे
इणः कर्तरि क्तः। तत्र ध्वस्तस्य साकारस्य स्थाने साधु यथा तथा सं ह्रस्वसकारं गमितं प्रापितं कासरजं महिषजातं कासरजशब्दं च कानु वा न जानीयात् । अदौ दुर्लभवस्तुविशेषप्रेप्सया प्रवृत्तस्सम्यक्पराहतश्च सन् महिषतुल्यमतिर्न चेत्कोवा तदर्थ पुनः प्रवर्तेतेति भावः। अत्र कासारजस्य कासरजत्वमलौकिकतया समर्थनसापेक्षमनेकैः पूर्वपदार्थस्समर्थयते । चमत्का. रान्तर तु स्फुटमेव ॥
यथावा
संख्यावतां कुलं त्वय्यनुरक्तं स्वान्तरे शमुपयातम् । निश्श्रेयससाम्राज्यं साधयितुं कुशलमेव भवति हरे ॥ १५८० ॥
संख्यावतां विदुषां कुलं बृन्दं त्वयि अनुरक्तं अत एव स्वान्तरे निजचित्ते शं सुखं आनन्दं उपयातं सत् निःश्रेयससाम्राज्यं साधयितुं कुशलमेव भवति । पक्षे कुलामिति पद स्वान्तरे वर्णद्वयात्मकस्य स्वस्य मध्ये शं शकारं उपयातं सत् कुशलमित्येव निष्पद्यत इत्यर्थः । अत्र संख्यावत्कुलस्य निश्श्रेयससाम्राज्यसाधनकुशलत्वं त्वय्यनुरक्तमित्यादिपदार्थहेतुकम् ॥
यथावा
प्रस्तरवरकौस्तुभमणिसौवस्तिकमम्बुजाक्ष तव हृदयम् । अरिंगणशरकिणदन्तरमत्यन्तं मयि कठोरमित्युचितम् ॥ १५८१ ॥