SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 2 यथावा अलङ्कारमणिहारे उदयंस्त्वत्पदरुचिभाग्विगळितबाल्योऽथ कनककटकश्रीः । प्रौढचूडामणिना क्रीडां घुमणिस्तनोति तव भगवन् ॥ १४०८ ॥ यथावा बालस्तव पदनखरुचिमथेन्दुरर्धस्समेति फालतुलाम् । संपूर्णो मुखलक्ष्मीं भवति हि शुचिरुत्तरोत्तरोत्कर्षम् ॥ १४०९ ॥ अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां सूर्याचन्द्रमोभ्यां उत्तरोत्तरावस्थाविशिष्टयोरेवोत्कर्ष उक्त इत्येकविषयत्वम् । अयमर्थाम्तरन्यासशिरस्क इति विशेषः ॥ बलियज्ञभुवं व्रजतस्स्थलकमलमिव व्यभातवोपेन्द्र पदम् । उत्क्षिप्तमथ छत्रं सुत्राम्णोऽथ च महद्वितानं जगताम् ॥ १४१० ॥ अत्र भगवश्चरणस्य पूर्वावस्थायां स्थलकमलवदल्पपरिमाणस्यैव सतः छत्रादिवदुत्तरोत्तर महत्त्वावस्थाविशिष्टतया उत्कर्ष उक्त इत्येकविषयत्वम् ॥ धर्मेण यथा दीप इवादौ दव इव ततोऽथ युगविगमरविरिवोज्जुलितः । ग्रसति स्म ते प्रतापो विराधमारीचदशमुखान्भगवन् ॥ १४११ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy