________________
श्रीः
. .
अलङ्कारमणिहारे तृतीयभागप्रारम्भः.
अथ सारालङ्कारसरः (५१)
सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः ॥
सैच शृङ्खला पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षवर्णने सारालङ्कार इत्युच्यते । अयमेवोदारालङ्कार इति सर्वस्वकृता व्यवह्रियते । तथाच तदीयं लक्षणं- “उत्तरोत्तरमुत्कर्षणमुदारः" इति । इमं चालङ्कारमेकानेकविषयत्वेन द्विविधमामनन्ति । एकविषयतायामवस्थाभेदाश्रयणमावश्यकं, उत्कर्षस्य भेदनियतत्वात्। न ह्यवस्थादिकं भेदं विना किंचिदपि वस्तु स्यापेक्षया स्वयमधिकं भवितुमीष्टे । तत्राप्युत्तरोत्तरमुत्कर्षः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यमिति विमर्शनीकारः॥ . तत्र एकविषये स्वरूपेणोत्तरोत्तरोत्कर्षों यथा
सोऽव्यात्तिविक्रमोऽस्मान्यस्योडुततिः क्रमेण वृद्धि भजतः। आदौ वजवतंसो मुक्ताहारस्ततोऽथ मणिकाञ्चयासीत् ।। १४०७॥
.. अत्र एकस्यैव भगवतस्तत्तदवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः॥
ALANKARA -~-III.