________________
98
अलङ्कारमणिहारे
त्सत् । अवपूर्वादिणश्शतरि ‘इणो यण' इति यणादेशः । तं श्रीदिव्यदेहं स्वस्य .आत्मनः उत्तमर्ण वर्णरूपऋणप्रयोक्तारं विदधत् तन्वत्सत् ‘लक्षणहे 'वे:' इति शता । ‘उत्तमर्णकरणेन हेतुनेत्यर्थः। अधमर्ण वर्णरूपऋणग्राहकं अत एव संर्ण ऋणसहितमेवाभूत् । न तु त्वत्प्रत्यर्पणक्षममिति भावः । स्वामिति नाम्ना स्वत एवं ऋणवत्त्वं च प्रतीयते ॥
पक्षे-स्वर्णमिति पदं कर्तृ उत्तमवर्णमिति पदं अवयत् अविद्यमानवकारं कुर्वत् उत्तमर्णमिति कुर्वत् । अधमवर्णमिति पदं तथा कुर्वत् अधमर्ण आत्मानं स्वर्णमिति पदं तथा कुर्वत् सर्ण चाभूदित्यर्थान्तरं चमत्कारमतिशाययति । अत्र स्वर्णस्याधमर्णत्वादिकमलैकिकतया समर्थनापेक्षं स्वस्मादुत्तमवर्णमित्यादिपदार्थस्समर्थ्यते । तच्च लक्ष्मीदिव्यविग्रहस्वर्णयोरुत्तमर्णत्वाधमर्ण त्वासंबन्धेऽपि तत्संबन्धवर्णनरूपातिशयोक्तिप्रसादसमासादित. साम्राज्यमिति ध्येयम् । 'उत्तमर्णाधमों द्वौ प्रयोक्तृग्राहको क्रमात्' इत्यमरः॥
यथावात्वद्वचनसुधाहरणात्स्वाद्यस्समजनि सुधाकरो भूत्वा । स्वाद्यः कथंन्वितरधा सोऽयं स्यात्कुमुदबान्धवो वान्तः ॥ १५७८ ॥
हे भगवन्निति प्रकरणालभ्यते । कुमुदबान्धवः चन्द्रमाः त्वद्वचनसुधायाः हरणात् अपहारादेव सुधाकरः सुधायाः आकर: स्थानं भूत्वा। पक्षे सुधाकरः अमृतकिरण इत्यर्थः। स्वाद्यः आस्वादनीयः सुकारः आद्यवर्णो यस्य स तथोक्त इति तत्त्वम् ।