________________
काव्यलिङ्गसरः (६२)
97
कसङ्गति जहत् उक्त एवार्थः । अपरित्यक्ताद्योत्तमवर्णः अपरित्यक्तौ अनुसृताविति यावत् । तादृशौ आद्यौ स्वापेक्षया पूर्वी उत्तमौ स्वस्माद्वरिष्ठौ वर्णी ब्रह्मक्षत्रवर्णी येन स तथोक्तः । ब्रह्मक्षत्रवर्णमानयितेति यावत् । अत एव सूरीभवन् असूरिस्सूरिस्संपद्यमानो भवन् ब्रह्मविद्भवन् त्वदको रुचिरभिरतियस्य स तथोक्तः आसीत् । पक्षे सूर्यकरशब्दः क्वचन अर्यः अविद्यमानर्यवर्णः भूत्वा अनुकसङ्गं अनु अनन्तरविद्यमानस्य कस्य कवर्णस्य सङ्गं जहत् र्यक इति वर्णसमुदयं त्यजनित्यर्थः । अपरित्यक्ती आद्यः प्राथमिकः उत्तमः अन्तिमश्च आद्योत्तमौ वर्णी सूर इत्याकारको वर्णी येन स तथोक्तः 'उत्तमौ प्रवरान्तिमौ 'इति रत्नमाला । 'उत्तम च नैदाघम्' इत्यादयः प्रयोगाश्च । अत एव सूरीभवन् असूरसूरस्संपद्यमानो भवन् सूर्यकरशब्दः येकवर्णत्यागे सूर इति निष्पन्न इत्यर्थः । त्वदङ्केः रुचिरिव रुचिर्यस्य स तथोक्त इति वस्तुस्थितिः । शब्दार्थयोस्तादात्म्येन सूरशब्दस्य श्रीचरणतुल्यत्वमित्यवधेयम् । अत्र सूर्यकरस्य सूरीभवनमप्रसिद्धतया समर्थनसापेक्षमनेकपूर्वपदार्थसमर्थितम् । श्लेषमूलाभेदातिशयोक्त्युत्तम्भितत्वादिकश्चमत्कारस्तु व्यक्त एव ॥
यथावास्वर्ण स्वस्मादुत्तमवर्णं श्रीदेहमधमवर्ण स्वं च। अवयत्तमुत्तमण विदधत्स्वस्याधमर्णमभवत्सर्णम् ॥ १५७७ ॥
स्वर्ण कनक कर्तृ। श्रियो देहं दिव्यविग्रहं स्वस्मात् उत्तमवर्ण स्वं च आत्मानं च अधमवणे निकृष्टवर्ण अवयत् जान
ALANKARA --III.
18