SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । दाख्यातस्य प्रयत्नवाचकत्वादचेतने तदभावाद्यापार लक्षणां पठन्ति ; केचि - चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्य दाख्यातस्यानुकूलव्यापारप्रधानतया सत्वादाख्यातप्रयोगो मुख्य एवेति । ' मच्चाः क्रोशन्तीत्यत्र स्वसम्बन्धमात्रेण जहत स्वार्थेव । नेयं प्रयोजनवती, न वा कढ़िलक्षया । ४२ कस्यचिदेकदेशिनो मतमाश्रित्याह - रथो गच्छतीति । स्वस्य रथस्यार्धको यः पुरुषस्तस्माद्रथस्य गमनेन पुरुषे 'रथ' पदस्य प्राक्यसम्बन्धरूपलक्षगणासम्भवादित्यर्थः । स्वकर्त्तक्रेति — रथ कर्त्तृ कगमनासम्भवादन्वयानुपपत्तिरूपं जगावीनमपि दर्शितम् । श्रंशत इति - गमृधातोरपि निरवच्छिन्नगमनत्वजातिरूपस्वार्थस्य शब्दवोऽभगोन तदंगे जहत्स्वार्था लक्षणा । गमनांशेनेति - गम्धात्वर्थस्य गमनविशेषम्य भागेन तपोऽऽनङ्घत्स्वार्था च । एतन्मतं नात्यन्तविचारमहमतो मतान्तरमाह- केचिदिति (न) । व्याख्यानस्य ने शक्तिरतोऽचेतने रथादौ यत्राभावाद्यापाररूपार्थे लक्षणां पठन्ति । व्यापारोऽव स्वप्रेरकपुरुषेण सह रथस्य गमनक्रियानुकूल संयोगः । तथाच गमनानुकूलव्यापाराश्रयो रथ इत्याकारको वोध: सिद्ध इति भावः । कस्यचिन्मते 'रथो गन्ती' त्यत्र लक्षणैब नास्ति' किन्तु मुख्य एवायं प्रयोगस्तन्मतमुपन्यस्यति - केचिदिति । ग्राख्यातस्य न यन्त्रमात्रे शक्तिः, किन्तु व्यापारवत्त्वरूपेण व्यापारे शक्तिः । व्यापारवत्त्वरूपधम्मैस्तु यत्र तथा रथपुरुषसंयोगे वर्त्तते, ( 14 ) व्यतो व्यापारवत्त्वरूपेोभयत्र शक्तिः । तथाच सचेतन कत्तमभियाहारस्थले व्यापारवत्त्वरूपेण यन्नस्य वोधो जायते, प्रचेतनकर्त्तकस्थले व्यापारत्वरूपेण संयोगादिबोधो जायत इति न कुत्रापि लक्षणाया व्यवकाशः, एतदभिप्रायेणाह - व्याख्यातस्यानुकूलेति । ग्राख्यातार्थानुकूलव्यापारस्य प्रधानतया मुख्यतया चेतने पुरुषे ऽचेतने रथे च धात्वर्थानु कूलयापारस्य यत्नस्य संयोगस्य च यथासंख्येन सत्त्वादाख्यातघटितो 'रथो गच्छती 'ति प्रयोगो मुख्य एव, नतु लाक्षणिकः । (न) वस्तुतस्तु 'केचिदिति निर्देशेन जहदजहत्स्वार्थलचणापचः ग्रन्थकृतो नानभिमत इति सुव्यक्तमेव व्यतः 'तो मतान्तरमाह' इति टीकाक्कदभिधानं न ग्रन्थकारमततात्पर्यपर्यालोचनया | व्याख्यातस्य प्रयत्नादिवाचकत्वमुपन्यस्त जगदीशेन - ' धात्वर्थेन विशिष्टस्य विधेयत्वेन वोधने । समर्थः स्वार्थयन्नस्य शब्दो वाख्यातमुच्यते ॥' इति कारिकायाम् । (14) 'यथा यत्ने तथा रथपुरुष संयोगे च वर्तते' इति (घ) पुस्तके पाठ: :
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy