SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । -लक्षणा पुनः । मुख्यार्थबाधे शक्यस्य सम्बन्धे यान्यधीर्भवेत् ॥ १६ का 'गङ्गायां घोष' इत्याप्तोक्तौ कश्चित् परामृशति - गङ्गायां घोषान्वयाभावात् घोषशब्दोऽत्र ध्वन्यर्थः, नत्वाभीरपल्लार्थः ; ततः प्रतिवसतीति श्रुते गङ्गाशब्दो वा स्वसम्बन्धि तीरमभिधत्ते, घोषशब्दो वा स्वसम्बन्धिनं प्रतिविम्वमभिधत्ते । उभयोरेव लाक्षणिकत्वं सम्भाव्यते, तदव नेयं रूढ़िलक्षणा, अपि तु प्रयोजनलक्षणैव । यदयमभ्रान्तो वक्ता तत्प्रयोजनमेव विचार्यम् । यदि गङ्गाशब्दस्तरं लक्षयति तदा तस्य शैत्यपावनत्वादिकमेव प्रयोजनम् । यदि वा घोषशब्दः स्वप्रतिविम्ब' लचयति, तदापि घोषस्य तत्तीरनैकव्यातिशयप्रतिपादनेन तदेव तीरगतं शैत्यपावनत्वादिकं, अधिकञ्च गङ्गाजलस्य खच्छत्वम् । तेनाधिकप्रयोजनलाभे घोषशब्दः एव लाक्षणिक इति परामर्शानत्तर' पुनस्तमागोविषयक शावोधानुपपत्तेश्व तत्र शक्तिज्ञानाभावेन पदजन्य पदार्थोपस्थितेरभावात् । एष दोषस्तु सामान्यलक्षणायाः प्रत्यासत्तित्वानङ्गीकारपच एव वोध्यः । ननु जातौ शक्तिस्वीकारे व्यक्तिज्ञानाभावेन कथं तत्तदप्रक्तिविषयकव्यवहारः सिध्यतीत्याहतहति । म्रतो जात्याक्षिप्रव्यक्तावेव व्यवहार इत्यर्थः । जातौ शक्तिधादिनां मते व्यक्तिभाणार्थं व्यक्तो लक्षण न स्वीकरणीया, व्यक्तिमाखमाक्षेपादेव । प्रविनाभावो याप्तिः । तथा च व्यक्तिभाणं विना जातिभाणमनुपपन्नमतो यत्र यत्र जातिभायं तत्र तत्र व्यक्तिभावमावश्यकमेवेति व्यक्तिज्ञानादेव शाब्दबोधे व्यक्तिभाणमिति । मुख्यार्थस्य वाधे जाते य: शक्यस्य वाच्यस्य सम्बन्धस्तस्मिन् सति शक्यसम्बन्धस्य ज्ञाने जाते सतीत्यर्थः । या अन्य पदार्थविषयक धीर्भवेत्तादृशधी जनक शक्य सम्बन्धो लक्षणेति पर्यवखितार्थः । अधिकच्चेति गङ्गापदस्य लक्षणापेचया घोषपदस्य लक्षणायां गङ्गायां स्वच्छत्वप्रतीतिरधिका । अतोऽधिकप्रयोजनलाभात् घोषपदस्यैव लक्षणोचिता । एतन्मतमपि दूषयति- पुनरिति । तमानयेत्युक्ते तत्पदेन घोषपदार्थस्य प्रतिविम्वस्य वोsस्वीकारे तस्यानयनमसम्भवमतो गङ्गापदस्यैव तीरें लक्षणा वक्तया । घोषपदस्याभीरपल्लयां शक्तिरेवातस्तदानयन' खङ्गच्छत इति निश्चिन्वन् । गङ्गापदसमभिव्याहार विना केवलं घोषः प्रतिवसति, तमानयेत्यक्त मुख्यार्थस्य वाधाभावे न लक्षणाया व्यवकाशः । किन्तु गङ्गापदप्रयोगादेव मुख्यार्थवाध:, अतएव गङ्गामंद एव लचयति व्युत्पद्यते । इयं लक्षणा जहत्स्वार्था, जहृत् त्यजन् स्वार्थं यस्यां ( ध ) तथाभूतापि गङ्गारूपस्वार्थस्य त्यागं (ध) जहत्ताजन् स्वार्थो यामिति वा विग्रहः । ४० - - .
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy