________________
अष्टमः किरणः ।
यथा वा
पृष्ठे मणीन्द्रमहसि प्रतिबिम्बभेव केशस्य केशपरिशेष इति भ्रमेण । उल्लासयन्त्य सक्कदङ्गुलिपल्लवेन सा व्ययधीरजनि केशव केशबन्धे ॥ १७७
उपमानस्य धिक्कार उपमेयस्तुती यदि । (५७)प्रतीपमुपमानस्य धिकृत्यै चोपमेयता (प) ॥ ३१० का
उपमेयस्तुत्यर्थमुपमानधिक्कारो यदि तदा प्रतीपं, यदि वा धिक्कारायैव उपमानस्यै वोपमेयता तदा चेति विविधम् । क्रमेणोदाहरणो... तव जयति जगत्यां राधिके ! भू विभङ्गे
- किमिति कुसुमचापश्चापमन्यं बिभर्ति । विलसति मुखबिम्बे वेधसा वा किमर्थं
व्यरचि विधुविधाने निष्फलोऽयं प्रयासः ॥१७८ वरतनु ! ननु कृष्णो हन्त वैदग्धामुग्धः
शिवशिव भुवि भद्राभद्रमावेऽनभिज्ञः । तव विगतकलङ्घनाननेनैव योऽयं
शशिनमुपमिमीते नैव लज्जां करोति ॥ १७८ मम वदनमेव नयनानन्दकमिति मा कृथाः सुतनु ! गर्वम् । अपरोऽपि कश्चिदेवं राकायां शरदि शीतांशुः ॥ १८० अहमेव दारुणतम इति मा कुरु कालकूट ! गुरुगर्वम् । त्वत्तोऽपि दारु पतमो दुर्लभलोके मनोरागः ॥ १८१
. इत्याद्यपि तद्देदान्तर्गतम् । पृष्ठ इति -श्रीकृष्णा स्य केशबन्धने कर्मणि यमधीरजनि । यग्रत्वे कारणमाह। मणीन्द्र इन्द्रनीलमणिस्त हन्महत्तेजो यस्य तथाभूते एछ केशस्य प्रतिबिम्ब मेव केशस्य परिशेषोऽग्रभाग इति भ्रमेणामकृदुल्लासयन्ता नयन्ती। ममेति-पत्काले राकायां पूर्णिमायां शीतांशुश्चन्द्रः । अतिशयोक्त्या श्रीकृष्ण: प्राह । अहमेवेति। दुर्लभलोके श्रीकृष्णे।
(फ) सामान्य मिति-तत्वतो भेदबहुलोलीमपि कविनिर्मितिगौरवेण समानगुणत्वेन निबध्यते चेदस्तु तदाऽयम् । तत्वतो भेदानाघ्रातमपि तेन विशेषेण भेदन यदिशिव्यते स विशेषः । तयोरेकन ग्रहणेन वेलक्षण्य स्फटरं जातमिति च ज्ञेयम् । एकत्र वस्तुसामान्य