________________
पञ्चमकिरगाः ।
एता अपि चतुर्विधाः मख्यी नायिका गुरुरज्यूना एव । विशेषतस्तु - दूतोभावः समये परिजनभावस्तु वेशभूषाऽदौ ।
उपदेष्टुता च माने तस्मिन् गाढ़े तु गर्हकत्वञ्च (R) ॥१६०का
तासामिति भावः । दूतीभावस्तु विधा । लक्षगान्तु प्रागुक्तसमानमेव (R) । तत्र निस्सृष्टार्था यथा'उच्छून स्तनिते'त्यादी (३८ किरणे ३८ श्लोक) । मितार्था यथा- - 'ताम्बूलमाला 'त्यादी (५ कि २५ श्लोक) । सन्देशहारिका यथा-त्वदुक्तमुक्त ं सखि ! कृष्णवनिधी तदुक्तमेतच्च निवेदयामि ते ।
'प्रसादनेनालमनेन निग्रहोऽप्यनुग्रहोऽयं मम यः कृतस्तया' ॥ १४५ परिजन भावो यथा - ' - 'आदर्शऽनुवस्सै' त्यादि ( ५म किरो १२१ श्लोक) । मानोपदेष्टृता यथा -' - 'सख्या शिक्षितपाठितानी'त्यादि (५म किरणे ६७ श्लाके) । तस्मिन् गाढ़ गर्हकत्वं यथा - ' - 'कति न पतितं पादोपान्त' इत्यादौ ( ४ किरणे १० श्लोक ) । 'अस्माभिः सह चाटुकदित्यादौ वा ( ५म किरण ८8 श्लोक ) । उक्त आलम्बनविभावः |
उद्दीपनविभावो (R) यथा
वृन्दावनं षडृ तवः सह वर्त्तमानाः
२१५
कुञ्जा मणीन्द्रगृहतोऽपि मनोविनोदाः ।
कर्परभांसि यमुनापुलिनानि हंस
कारण्डवादिललितं नलिनीवनञ्चं ॥
मानभङ्गार्थं प्रत्यादिनाऽनुनयन्त श्रीकृष्णां तिरस्कृत्य विसखी बभूव, पश्चात् श्रीकृष्णो गते 'टुर्बुद्धिरहं किमकरवम्, व्रजराजनन्दनो मया तिरस्कृत' इति पश्चात्तापवती काचित् श्रीकृष्णां प्रसादयितु ं सन्देशहारियों दूतीं श्रशंग निकटै, प्रेषयामास इत्याह- त्वदुक्तमिति । श्रीकृष्णस्योक्तिमेवाह - अनेन मम प्रसादनेनाल, तया कृतो यो निग्रहः स ममानुग्रह एव, स्वस्थ प्रीतिमन्जन एव निग्रहोनुग्रहं करोति, अन्यथा मयि तस्या औदासीन्यमेवस्यात् । कर्पूरतोऽपि दीप्तिमन्ति यमुनापुलिनानि । दिशो हृद्या:, 'अपि कारात्तेषां शब्दा अि हृद्या इत्यर्थः ।
खम्पादनेन वाऽपाततच्चारिताम् । 'नखरञ्जन पदस्येव ('वरुण' इति यस्य गौड़ीया भाषा ) 'केशरञ्जन' पदस्यापि योगरूढ़िवाऽपि सूचिता । सखीनामेषामपि नायिकाभेदानामिव प्रखरमध्यम्टदुत्वेनं, नित्यानित्यादित्वकल्पनया च विभागविस्तर इतरत्र लक्ष्यः । वैद्यावागममतेन