________________
अलङ्कारकौस्तुभः ।
तौभिः प्रार्थयमानोऽपि गन्ताऽस्मौत्युक्तवानपि ।
देवमायाति यत्कान्तो विप्रलब्धति सा स्मृता ॥ ११८ का
यथा- 'सुमुखि ! म किमवादीदेष यामीति, तस्मात्
१८६
कथमअनि विलम्बो' 'मास्म भूः सन्दिहाना' | 'कथय किमु भवत्या यास्यते तत्र भूयः, किमथ मदभिर्वा, तुल्यमेतद्दृयं मे ॥
यथा
( 35 ) कोपेनान्तरिता या तु कलहान्तरिता तु सा । १९६का अस्माभिः सह चाटुक्कन्त्र गणितः पादानतो माधवः, - कोपोऽयं बहु मानितों, न च वयं, प्राणेश्वरो नाप्यसौ । चन्द्रश्चन्दनमारुतः पिकरुतं सम्भूय स यदा
त्वामुदेजयिता तदैष सकलं कोपः समाधास्यतं ॥ ८४ वासगेहे वेशभूषाताम्बूलवसनादिभिः ।
सुसज्जाऽपेक्षते कान्तं सा स्याद्दासकसज्जिका ॥ १२० का
एष श्रीकृष्णः यामी.त किमवादीत् । यद्यवादीत् तदा विलम्बः कथमजनि । हे सखि ! तस्यागमने सन्दिग्धाऽपि त्वं मा भूः । स तु नागत एव, अधुना किं कर्त्तव्यं कथय । तदानयनार्थं भवता यास्यत किं वा मत्प्राणवी - त्वं मे प्राणा चैतदयं प्रेमास्पदत्वेन मम तुयमेव । तथा च विरहज्वालया स्थातुममर्था: प्राणा यदि मद्देहात् गतास्तदा
1
मद्दिच्छेदेन तव महद्दुःखं भविष्यति, अतस्त्वद्गमनमेवोचितमिति ध्वनिः (J) ।
कोपेनान्तरिता रक्षिता (J) ।
मानभङ्गार्थं तन्मन्दिरे गत्वा प्रणयनत्यादिपरं श्रीकृष्ण कोपावेशेन स्वगृहान्निष्काश्य कोपे गते सति पश्चात्तापवती सा लखीमाह ( 36 ) । 'हे सखि ! श्रीकृष्णः क गतः शौत्र' तमानये' युक्तवर्ती यूथेश्वरीं प्रति सख्याह - अस्माभिरिति । मारतो वखन्तानिलः । एतत् सर्वं सम्भय मिलित्वा यदा त्वां विरहिणो मुद्दे जयिता उद्दीपनत्वेन खेदयिष्यति तदैष कोप एव सकलं समाधानं करिष्यति, किमस्माभिर्निष्टाभिरिति सखीनामाचेपो ध्वनिः ।
या सा च । मानिनो बभूवेत्यादि - प्राकृते रसो नास्तीत्येवं यत्र लट्प्रयोगः सोऽप्यतीतार्थे
(35) व 'पादानसं प्रियन्यक्का पश्चात्तापविला । कोपेनान्तरिता या तु कलहान्तरिता तु सा ॥' इति (ख) (छ) पुस्तकयोः पाठः ।
(36) 'सखी माहेति पाठ: केवलं मुद्रित पुस्तक एवोपलभ्यते ।