________________
५१८ ]
वृत्तमौक्तिक-षष्ठ परिशिष्ट
२०. विडालः गगनजलधिमितलघव इह जलनिधिमितगुरवश्च । प्रभवति यदि फणिपतिभणित इति नाम विडालश्च ॥२०॥
२१. श्वा यदि यमयुगमितलघव इह गुणपरिमितगुरुकाणि । श्वा फणिपतिगुरुमतिभिरिति भवति सनियममभाणि ॥२१॥
२२. उदुम्बरः, उन्दुरुश्च द्विगुरुजलधियुगलघुभिरिह नियमिततनुरनुभवति । फणिपतिरिति तत उन्दुरुः सुनियतकृतयति भवति ।।२२।।
२३. सर्पः शशिगुरुरसयुगमितलघुभिरथ कृततनुरिह लसति । फणिगणपतिरधिकृतविरति सर्प इति समभिलषति ॥२३॥
२४. शशधरम् वसुजलनिधिपरिमितलघुभिरभिनियमिततनु भवति । शशधरमिदमिति नियतयति फणिगणपतिरनुभवति ।।२४।।