________________
मात्रामर्कटी-प्रकरण
[ ३६५
मात्रामर्कटी
४ | ८ | २० | ४० / ७८ | १४७ २७२ ४६५ मा.
१ एकं तृतीयपंक्तिस्थं, द्विकं तुर्यपंक्तिस्थं एकीकृत्य पञ्चमपंक्ती त्रिकः । एवं २।५ ऐक्ये ७, तथा ५।१० ऐक्ये १५, १०।२० ऐक्ये ३०, पुन: ३८।२० ऐक्ये ५८, पुन: ३८७१ ऐक्ये १०६, पुनः ७१।१३० ऐक्ये २०१, पुनः तृतीयपंक्तिस्थ १३० तत्र तुर्यपंक्तिस्थ २३५ ऐक्ये ३६५; एवं पञ्चमीपंक्तिः पूरणीया।
द्वयोद्विगुणत्वे ४, त्रिकस्य त्रिगुणत्वे ६, चतुष्कस्य पञ्चगुणत्वे २०, पञ्चानां अष्टगुणत्वे ४०, त्रयोदशानां षड्गुणत्वे ७८, सप्तानां २१ गुणे १४७, अष्टानां ३४ गुणे २७२, नवानां ५५ गुणने ४६५ इति षष्ठी पंक्तिः । प्रथमद्वितीयपंक्तिभ्यां निष्पन्ना।
चतुर्थीपंक्तिस्तृतीयपंक्तिसमा परं पूर्णाध एकः, ततः २। ५।१०।२०।३८। ७१।१३०। अथ तृतीयपंक्तिस्थ १३० तस्याधः तुर्यपङ क्तौ २३५ ।
वृत्तं प्रभेदो मात्रा च, वर्णा लघुगुरू तथा।।
एते षट् पंक्तितः पूर्ण-प्रस्तारस्य विभान्ति वै [ ॥ ८५ ।। ] अत एव लघूनां वर्णानां संख्याङ्काः पञ्चम्यां पङ क्तौ न्यस्ताः । गुरवः षष्ठयाम् । वर्णमर्कटयां लघुन्यासः षष्ठपंक्ती, गुरुन्यासः पञ्चमपङ क्तौ वर्णेषु गुर्वादित्वात् । मात्रामर्कटयां लघुसंख्या पञ्चम्यां युक्ता लघ्वादित्वात् । तत्रापि अष्टमकोष्ठे २३५ भरणं, अनुक्तमपि २।५।१०।२०।३८।७१।१३० एषां ऐक्ये २७६; तत्र ४० हीनकरणं, न्यासे ५ अङ्कादुपरि तिर्यक् १५ ततोप्युपरि पङ क्ती तिर्यक्कोशे ४० सद्भावात् । एवं शेषं २३६ ततोऽपि सप्तमकोशभरणवत् एकोनत्वे २३५ लघवो नवकलच्छन्दसि ।