SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ मात्रानष्ट-प्रकरणम् अथ मात्रानष्टं यथा यत्कलकः प्रस्तारो लघवः कार्याश्च तावन्तः । दत्त्वा पूर्वयुगाङ्कान् पृष्टाङ्घ लोपयेदन्त्ये ॥ [॥ ५३ ॥] उद्वरितोद्वरितानामङ्कानां यत्र लभ्यते भागः । परमात्राञ्च गृहीत्वा स एव गुरुतामुपागच्छेत् ।। [॥ ५४ i] अस्यार्थः-यावंत्य: कलाः प्रस्तारे एककलस्य एक एव लघुः : । ईदृशः द्विकलस्य द्वे रूपे, आदौ एक एव गुरुः 5 ईदृशः, द्वितीयरूपे लघुद्वयम् ॥ ईदृशम् । अत्र पृच्छानवकाशात् न इष्टरूपलाभः, असम्भवात् । त्रिकले मात्राच्छन्दसि त्रीणि रूपाणि । चतुःकले पञ्चरूपाणि १।२।३।५ इति पूर्वयुगाङ्कात् । पञ्चकले अष्टरूपाणि १।२।३।५।८ इति पूर्वयुग्माङ्कात् । षट्कले १३ रूपाणि तावत् एव पूर्वयुग्माङ्कात् । सप्तकले २१ रूपाणि तथैव । एवं कलाप्रमाणा लघवो लेख्याः, यथा-सप्तकले मात्राच्छन्दसि इष्टं एकादशं रूपं कीदृशं ? इति, मुखेन केनचित् पृष्टम्, तदा सप्तैव लघवः ।।।।।।। अनया रीत्या लेख्याः । तेषामुपरि १।२।३।५।८।१३।२१ एते धार्याः । अत्र पृष्टे इष्टाङ्कः ११, तस्य २१ मध्याल्लोपे शेषं १।२।३।५।८।१३।१० इति । तदा दशमध्ये त्रयोदश न पतन्तीति भागाभावः, तदा ८ अङ्क: १३ मध्ये पात्यः, एवं अष्टाधः कलामाकृष्य त्रयोदशाधो गुरुः स्थाप्यः, दशाध एका कलाऽवशिष्टा; अष्टकस्य लोपः परमात्राग्रहेण गुरुभावात् । अथ त्रिकस्य कला पञ्चके न गृह्यते, मुख्यककस्य द्विकेन गृह्यते तदा 55 5। ईदृशं नवमरूपतापत्तेः । यद्वा त्रिकस्य कला पञ्चके न गृह्यते १।२ अनयोः कलाद्वयं लघुरूपमेव ध्रियते तदा दशमं रूपं ईदृशं स्यात् ।। 5 5, तेन पञ्चकाऽधः कला एका भिन्नैव रक्ष्या, अग्रे द्वितीयाङ्कस्य त्रिके कलाग्रहेण त्रिकाधो गुरुः, मुख्यककलाशेषात्, एवं ।।।। ईदृशं एकादशं रूपं व्यवस्थितम् । द्विकाष्टकयोर्लोप 'उवरिल अंकलोपके लेख' इति वचनात । यदुक्त छन्दोरत्नावल्याम् सब लघु सिर ध्रुव अंक, प्रश्नहीन शेषाङ्क धरि । पर लघु ले लिख वङ्क उवरि भाग जह जह परइं॥ यद्वा, दशानां भागस्त्रयोदशे प्राप्यते 'दश एके दश' शेषं ३ विषमत्वात परस्य-अन्यस्य त्रयोदशात् पूर्वस्य अष्टकस्य कलाग्रहेण त्रयोदशस्थानजातत्रिकाधो
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy