________________
३२४ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
__ एवमङ्कसप्तकेन द्वि-पञ्च-दश-विंशत्यष्टत्रिंशदेकसप्तति-त्रिंशदधिकशतकरूपेण २, ५, १०, २०, ३८, ७१, १३० पञ्चमपङ्क्तौ कोष्ठसप्तकं पूरयेदिति । एवं चात्रत्ये पूरणीये तत्तत्कोष्ठे अत्रत्यानां द्वयादीनामङ्कानां एकीभावं कृत्वा, यथासम्भवं तत्तदकं त्यक्त्वा, तेष्वपि यथासम्भवं एकादिकं हित्वा तत्तत्कोष्ठकं पूरयेदिति संक्षेपः।
एवं अङ्कविन्यासे कृते सति चतुर्थषष्ठपंक्तिगर्भाः पञ्चमी लघुपंक्तिः सिद्धयति । ननु अस्यां पङ्क्तावग्रिमकोष्ठाऽङ्कसञ्चारः क्रियतां इत्याकांक्षायां प्रकृतानुपयोगादङ्कबाहुल्याद् ग्रन्थविस्तरशङ्कया न क्रियत इत्याह
एवमिति । सुगमम् ॥ २ ॥ अथ पंचमपंक्तिपूरणमुपसंहरन् षष्ठगुरुपंक्तिपूरणप्रकारमुपदिशति
एवमिति । एवं पूर्वोक्तप्रकारेण पञ्चमपंक्ति पूर्णां कृत्वा तत्र गुरुस्थानीयं प्रथम कोष्ठं विहाय अग्रिमकोष्ठं-प्रथमं प्रथमत एवाझं दत्त्वा पूरणीयम् । अथ-अनन्तरं पञ्चमपंक्तिस्थितैः द्वितीयादिभिरङ्क: पूर्वस्थापितैरेव प्रतिकोष्ठं षष्ठीं प्रपूरयेदिति । तथा च षष्ठपङ्क्तौ ०, १, २, ५, १०, २०, ३८, ७१, १३० शून्यैकद्वि-पञ्च-दश-विंशति-अष्टत्रिंशदेकसप्तति-त्रिंशदधिकशताङ्कविन्यस्ता दृश्यन्त इति ।। ८३ ॥
एवमङ्कविन्यासे कृते सति षष्ठी गुरुपंक्तिः सिद्धयति ॥ ६ ॥ अथोर्वरितचतुर्थवर्णपंक्तिपूरणप्रकारमुपदिशति
एकीकृत्येति । विद्वान्-अङ्कमेलनकुशलो गणकः तथा पूर्वोक्तप्रकारेण पञ्चमषष्ठपंक्तिस्थितान् द्वये कादीन् अङ्कान् प्रतिकोष्ठं एकीकृत्य-संयोज्य नागाज्ञयाश्रीपिङ्गलनागोक्तमार्गेण चतुर्थपंक्तितत्पंक्तिस्थकोष्ठकरूपां तूर्णं-अविचारितमेव पूर्ण कुर्यादिति । अत्रत्यप्रथमकोष्ठे असंयुक्तः पञ्चमकोष्ठस्थप्रथमांकः सम्प्रदायलभ्यो देय इति रहस्यम् ॥ ८४ ॥
तथा चतुर्थपङ्क्तो १, ३, ७, १५, ३०, ५८, १०६, २०१ एक-त्रि-सप्तपञ्चदश-त्रिंशद्-अष्टपञ्चाशन्-नवाधिकशतकोत्तरद्विशताङ्का विन्यस्ता दृश्यन्त इति ।
एवं अङ्कविन्यासे कृते सति चतुर्थी वर्णपंक्तिः सिद्धयतीति ।। ४ ।।
एवं विरचनप्रकारेण पंक्तिषट्कं साधयित्वा मात्रामर्कटीफलमाह___ वृत्तमिति । वृत्तं-वृत्तानि एकमात्रादिनिरवधिकमात्राजातयः । एकवचनं । जात्यभिप्रायेण । प्रभेदजातीनां प्रभेदा इत्यर्थः । पूर्ववदत्राप्येकवचननिर्देशः ।