SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ पञ्चमो विश्रामः अथ तृतीयप्रत्ययस्वरूपवर्णमेरुमाह-श्लोकद्वयेन कोष्ठानिति । कोष्ठानेकाधिकान् वर्णैः कुर्यादाद्यन्तयोः पुनः । एकाङ्कमपरिस्थाङ्कद्वयरन्यान् प्रपूरयेत् ।। ५७ ॥ वर्णमेरुरयं सर्वगुर्वादिगणवेदकम् । प्रस्तारसंख्याज्ञानञ्च फलं तस्योच्यते बुधैः ।। ५८ ।। .' तत्र च क्रमाद् एकाधिकान् कोष्ठान् वर्णरक्षरैरुपलक्षितान्, पुनराद्यन्तयोरेकाङ्कच कुर्याद् विलिख्य रचयेत् । ततश्च मध्यस्थकोष्ठकस्योपरि स्थिताङ्कद्वयैरेकीकृतरित्यर्थः । अन्यान् शून्यान् कोष्ठान् प्रपूरयेत् ।। ५७ ।। एवं कृते सत्ययं वर्णमेरुमैरुरिव भवतीति शेषः । तस्यैवंप्रकारेण विरचितस्य मेरोर्बुधः-अधीतछन्दःशास्त्रैः भाष्यवात्तिकतात्पर्याभिरिति यावत् । सर्वगुरुरादौ येषामेवंविधानां गणानां वेदकं-ज्ञापकं अवबोधकमिति, यावत् प्रस्तार संख्याज्ञानं च यतो भवतीति उभयमपि फलविशेषणम् । तथा च तत्तत्पंक्तिस्थकोष्ठगत-तत्तवर्णप्रस्तारसंख्याव्यापकं फलं उच्यते-प्रकाश्यत इत्यर्थः ॥५८।। अस्य निर्गलितार्थस्त्वेवं समुल्लसति एकाक्षरादिषड्विंशत्यक्षरपर्यन्तं स्वस्वप्रस्तारे कति सर्वगुरवः, कत्येकादिगुरवः, कति सर्वलघवः, कति वा प्रस्तारसंख्येति प्रश्ने कृते वर्णमेरुणा प्रत्युत्तरं देयम् । तत्र एकाक्षरादिक्रमेण यावदिष्टं कोष्ठकान् विरचय्य, प्रादावन्ते च कोष्ठके प्रथमाङ्को दातव्यः । ततो मध्यस्थकोष्ठके च तदीयशिरःकोष्ठकद्वयात शृङ्खलाबन्धन्यायेन एकीकृत्य परं शून्यं कोष्ठकं एकीकृताङ्के पूरयेत् । एवं अन्यत्रापि पूरणीये कोष्ठके कोष्ठानामुपरिस्थितकोष्ठद्वयाङ्कमुक्तबन्धन्यायेन पूरणं विधेयं इति संक्षेपः । एवं पूरितेषु कोष्ठेषु एकाक्षरप्रस्तारे आदावेकगुर्वात्मकस्तदन्ते च एकलघ्वात्मकः संकेत इति । द्वयक्षरप्रस्तारे तु सर्वगुरुरादौ त्रिगुरु-द्विगुरुर्वारिभावात् स्थानद्वयेप्येकगुरुरन्ते च सर्वलघुरिति । त्र्यक्षरप्रस्तारे चादौ सर्वगुरुस्त्रिगुरोरन्यत्रासम्भवात्, स्थानत्रये द्विगुरुः, स्थानत्रये च एकगुरुरन्ते च सर्वलघुरिति ।। चतुरक्षरप्रस्तारेपि सर्वगुरुरादौ च चतुर्गुरोरन्यत्राभावात्, स्थानचतुष्के त्रिगुरुः, स्थानषट्के द्विगुरुः, स्थानचतुष्टये च एकगुरुरन्ते च सर्वलघुरिति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy