SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विश्रामः अथ क्रमप्राप्तं तथैव वर्णानां नष्टमाह-'नष्टे पृष्ठे' इति श्लोकेन । नष्टे पृष्ठे भागः कर्तव्यः पृष्ठसंख्यायाः। समभागे ल कुर्याद् विषमे दत्त्वकमानयेद् गुरुकम् ।। ५६ ।। नष्टे-अदृष्टरूपे पृष्ठे सति पृष्ठसंख्यायाः-पृष्ठायाः संख्यायाः भागः कर्त्तव्यःविधेयः । तत्र समभागे सति लं-लघु कुर्यात्, विषमेऽवशिष्टे सतीति शेषः । एक दत्त्वा तस्यापि भागं कृत्वा गुरुकमानयेत्-गुरुं लिखेदित्यर्थः। एवं कृते सति प्रकृतप्रस्तारस्थितादृष्टरूपगणस्थानसिद्धिर्भवतीति भावः ॥ ५६ ॥ इदमत्रानुसन्धेयम् अत्र तावद् भागो नाम नष्टाङ्कस्य यावत्संख्यापूरणम् । तथाहि सोदाहरणमुच्यते । यथा चतुरक्षरप्रस्तारे षष्ठो गणः किमाकारः ? इति प्रश्ने, षडङ्गभागं कृत्वा तदर्द्ध त्रयं ३ स्थापनीयम् । अयं च समो भागः, उभयकोटिसाम्यात् । अथ एको १ गुरुर्लेख्यः । अनन्तरं अवशिष्टस्य त्रयस्य विषमत्वात् एकं १ दत्त्वा चतुष्टयं सम्पाद्य तस्य भागं कृत्वा द्वयं २ स्थापनीयम् । तदा एको गुरुर्लेख्यः, ततो द्वयोर्भागं कृत्वा एकं १ स्थापनीयम् । तदा एको १ लघुर्लेख्यः । ततोप्यवशिष्टे विषमे एकं १ दत्त्वा द्वित्वं सम्पाद्य तस्यापि भागं कृत्वा एकमेव स्थापनीयम् । तदा एको गुरुर्लेख्यः । एवञ्च प्रथमं लघुरनन्तरं गुरुस्ततो लघुरन्तरे गुरुरेवमाकारश्चतुरक्षरप्रस्तारे षष्ठो। ऽ । ऽ गण इति वेदितव्यम् । तथा चात्रव सप्तमस्थाने किमाकारको गणः ? इति प्रश्ने, सप्तमस्य विषमत्वात् पूर्वमेको गुरुर्लेख्यः । ततः सप्तसु एकं दत्त्वा अष्टौ कृत्वा विभागः कार्यस्तेन अवशिष्टाश्चत्वारः । अयं च समो भागस्तत एको १ लघुर्लेख्यः । पुनश्चतुष्टयस्यावशिष्टस्य भागं कृत्वा द्वयं समं स्थापनीयम् । अत एको लघुरेव लेख्यः । अनन्तरं अवशिष्टस्य एकाङ्कस्य विषमीभूतत्वाद् गुरुरेव लेख्यः । एवञ्च प्रथमं गुरुरनन्तरं लघुस्ततोऽपि लघुरेव चरमे च गुरुरेवं ।। 5 आकारश्चतुरक्षरप्रस्तारे सप्तमो गण इति च विज्ञेयम् । एवं पुनः पुनर्भागे समे विभजनीये लघुतिव्यः । विषमे एकं दत्त्वा भागे कृते गुरुतिव्यः । प्रकृते च लघावधिको गण
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy