________________
५० ६८ - ८१ ]
१२. अनुक्रमणी-प्रकरणम्
[ २८१
लोला नान्दीमुखी तस्माद् वैदर्भी तदनन्तरम् । प्रसिद्ध मिन्दुवदनं स्त्रीलिङ्गमिदमन्यतः ।। ६८ ।। ततस्तु शरभी प्रोक्ता ततश्चाहिधृतिः स्थिता । ततोऽपि विमला ज्ञेया मल्लिका तदनन्तरम् ॥ ६६ ।। ततो मणिगणं वृत्तमन्त्यं मन्वक्षरे भवेत् । प्रस्तारगत्या चात्रापि भेदा वेदाष्टतो गुणाः' ॥ ७० ॥ रसेन्दुप्रमिताश्चापि(१६३८४) विज्ञेयाः कविशेखरैः। यथासम्भवसम्प्रोक्ताः शेषास्तूह्याः स्वबुद्धितः ।। ७१ ।। लीलाखेलमथो वक्ष्ये वृत्तं पञ्चदशाक्षरे । सारङ्गिकेति यन्नाम पिङ्गले प्रोक्तमुत्तमम् ।। ७२ ॥ ततस्तु मालिनीवृत्तं ततः स्याच्चारु चामरम् । तूणकं चान्यतश्चापि भ्रमरावलिका ततः ।। ७३ ।। भ्रमरावली पिङ्गले स्यान् मनोहंसस्ततस्ततः । शरभं वृत्तमन्यत्र मता शशिकलेति च ।। ७४ ।। मणिगुणनिकरः स्रगिति च भेदी द्वावस्य यतिकृती भवतः । तत्प्रागेवाभिहितं वृत्तद्वयमस्य शरभतो न भिदा ।। ७५ ।। ततस्तु निशिपालाख्यं विपिनात्तिलकं ततः । चन्द्रलेखा ततः प्रोक्ता चण्डलेखाऽपि चान्यतः ॥ ७६।।' ततश्चित्रा समाख्याता चित्रं चान्यत्र कीर्तितम् । ततस्तु. केसरं वृत्तमेला स्यात्तदनन्तरम् ।। ७७ ।। ततः प्रिया समाख्याता यतिभेदादलिः पुनः । उत्सवस्तु ततः प्रोक्तस्ततश्चोडुगणं मतम् ।। ७८ ।। प्रस्तारगत्या सम्प्रोक्ताः भेदाः पञ्चदशाक्षरे। वसुशास्त्राश्वनेत्राग्निप्रमिताः (३२७६८) कविपण्डितैः ।।७।। प्रस्तार्य शेषभेदास्तु कृत्वा नामानि च स्वतः । अस्मदीयोपदेशेन सूचनीयाः सुबुद्धिभिः ।। ८०॥ . अथ प्रथमतो रामः प्रस्तारे षोडशाक्षरे । ब्रह्मरूपकमित्यस्य नाम प्रोक्तं च पिङ्गले ।। ८१ ।।
१. क. गुणः। २. ख. पद्य नास्ति ।