SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ५० ४१-५३] १२. अनुक्रमणी -प्रकरण [ २७९ उपजातिस्ततः प्रोक्ता पूर्वोक्तेनैव वर्मना । भेदाश्चतुर्दशैतस्याः विज्ञेयाः पिण्डतो बहिः ॥ ४१॥ ततो रथोद्धतावृत्तं स्वागतावृत्ततस्तथा । भ्रमरान्ते विलसिताऽनुकूला च ततो भवेत् ॥ ४२ ॥ ततो मोट्टनक' वृत्तं सुकेशी च ततो भवेत् । ततः सुभद्रिकावृत्तं बकुलं कथितं ततः ॥ ४३॥ रुद्रसंख्याक्षरे भेदा वसुवेदखनेत्रकैः (२०४८) । प्रस्तारगत्या जायन्ते शिष्टान् प्रस्तार्य सूचयेत् ॥ ४४ ॥ अथ रव्यक्षरे पूर्वमापीड: . कथितोऽन्यतः । विद्याधरस्ततश्च स्यात् प्रयातं भुजगादनु ॥ ४५ ॥ ततो लक्ष्मीधरं वृत्तमन्यत्र स्रग्विणी ततः । तोटकं स्यात् ततः सारङ्गकं मौक्तिकदामतः ॥ ४६॥ मोदकं सुन्दरी चापि ततः स्यात् प्रमिताक्षरा। चन्द्रवर्त्म ततो ज्ञेयमतो द्रुतविलम्बितम् ॥ ४७ ॥ ततस्तु वंशस्थविला क्वचित् क्लीबमिदं भवेत् । क्वचित्तु वंशस्तनितमिन्द्रवंशा ततो भवेत् ।। ४८ ॥ प्रनयोरपि चैकत्रपादानां योजनं यदि । तदोपजातयो नाम भेदाः स्युस्ते चतुर्दश ॥ ४६॥ सर्वत्रवं स्वल्पभेदे भवन्तीहोपजातयः । वृत्ताभ्यामल्पभेदाभ्यामुपदेशः पितुर्मम ॥ ५० ॥ ततो जलोद्धतगतिर्वैश्वदेवी ततो मता। मन्दाकिनी ततो ज्ञेया ततः कुसुमचित्रिता ॥ ५१॥ ततस्तामरसं वृत्तं ततो भवति मालती। कुत्रचिद् यमुना चेति मणिमाला ततो भवेत् ॥ ५२॥ ततो जलघरमाला स्यात् ततश्चापि प्रियंवदा । ततस्तु ललिता सैव सुपूर्वान्यत्र लक्षिता ॥ ५३॥ १.स. मोटनकम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy