________________
नवमं विरुदावली-प्रकरणम्
[प्रथमं कलिकाप्रकरणम् ]
अथ विरुदावली अथाऽत्र विरुदावल्याः सोदाहरणमुच्यते । लक्षणं लक्षिताशेष-विशेषपरिकल्पनम् ॥ १ ॥
गद्य-पद्यमयी राजस्तुतिविरुदमुच्यते । तदावली समाख्याता कविभिविरुदावली ॥२॥
किञ्च
कलिकाभिस्तु कलिता विरुदावलिका मता। सवर्णा कलिका प्रोक्ता विरुदाढया मनोहरा ॥३॥
द्वादशार्द्धकलाः कार्याः चतुःषष्टिकलावधि । तभेदाश्चात्र कथ्यन्ते लक्ष्यलक्षणसंयुताः ॥ ४ ॥ द्विगा रादिश्च मादिश्च नादिर्गलादिरेव च । मिश्रा मध्या द्विभङ्गी च त्रिभङ्गी कलिका नव ॥५॥
१. द्विगाकलिका चतुर्भिस्तुरगैः निजैदिगा मैत्री हयद्वये । पथा
जय जय वीर ! क्षितिपति हीर ! इत्यादि । एवं चरणचतुष्टयं बोद्धव्यमत्र । ग्रन्थविस्तरभयादस्मिन् प्रकरणे सर्वत्र पादमानमुदाहियते ।
इति द्विगाकलिका १.
२. अथ रादिकलिका वेदैः पञ्चकलैः कार्या मैत्र्यः रादिका कला ।। ६ ॥
यथा
कामिनीकलितसुख यामिनीरमणमुख ।
इत्यादि।
इति रादिकलिका २.