________________
८. गद्यनिरूपण-प्रकरण
[२०६
निधानदानपथातीतसुरद्रुमकथासमारम्भरम्भादिविषनारीगणोद्गीयमानकमनीय - कीत्तिभरभरणीयजनप्रवृद्ध कृपापारोवारवारणेन्द्रसमानसारसादितारातियुषतिषचोवर्णदत्तकर्णकर्णबलिदीयमानोपमानमानवतीमानापमानोदनविशारदशारदेन्दुकुलावदातकीतिप्रीणिताशेषजनहृदयानुरूपसमरसीमव्यापादितारातिवर्गचक्रवत्तिमहा - महोग्रप्रतापमार्तण्डसमरविजयी महाराजाधिराजः समाज्ञापयत्यशेषसामन्तगणान् । इत्यादि । यथा वा
प्रणिपातप्रवणप्रधानाशेषसुरासुरादिवृन्दसौन्दर्यप्रकटकिरीटकोटिनिविष्टस्पष्ट मणिमयूखच्छटाच्छुरितचरणनखचक्रविक्रमोद्दामवामपादाङ्ग ष्ठनखरशिखरखण्डितब्रह्माण्डभाण्डविवरनिस्सरत्क्षरदमृतकरप्रकरभास्वरसुरवाहिनीप्रवाहपवित्रीकृत - विष्टपत्रयकैटभारे क्रूरतरसंसारापारसागरनानाप्रकारावर्तविवर्त्तमानविग्रहं मामनुगृहाण । इत्यादि ।
इत्यत्कलिकाप्रायं गद्यम् २.
३. अथ वृत्तमन्धि गद्यम् । ____समरकण्डूलनिविडभुजदण्डमण्डलीकृतकोदण्डसिञ्जिनीटङ्कारोज्जागरितवैरिनागरजनसंस्तुतानेकविरुदावलीविराजमानमानोन्नतमहाराजाधिराज जय जय । इत्यादि । यथा वा, मालतीमाधवे*
गतोऽहमवलोकिताललितकौतुकः' कामदेवायतनम् । इत्यादि । यथा धा, कादम्बर्याम्
पातालतालुतलवासिषु दानवेषु । इत्यादि । हरद्रवजितमन्मथो गुह इवाप्रतिहतशक्तिः । इत्यादि ।
पथा
यथा वा
____जय जय जनार्दन सुकृतिजनमनस्तडागविकस्वरचरणपद्म पद्मनयन पद्मिनी विनोदराजहंसभास्वरयशःपटलपूरितभुवनकुहर हरकमलासनादिवृन्दारकवृन्दवन्दनीयपादारविन्द द्वन्द्व निर्मुक्त' योगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योतिःस्वरूप नीरूप विश्वरूप स्वर्नाथनाथ जगन्नाथ मामनवधिदुःखव्याकुलं रक्ष रक्ष ।
इति वृत्तगन्धिगद्यम् ३.
१. ख. जनितकोतुकः । २. ख. इन्द्र द्वन्द्वनिमुक्त । टिप्पणी-१ मालतीमाधवम्, प्रथमा विंशतिपद्यानन्तरं गद्यभागः ।