________________
अष्टमं गद्यनिरूपण-प्रकरणम्
तत्र
तत्र
प्रथ गद्यानि वाङ मयं द्विविधं प्रोक्तं पद्यं गद्यमिति क्रमात् । तत्र पद्य पुरा प्रोक्तं गद्य सम्प्रति गद्यते ॥ १ ॥ असवर्णं सवणं च गद्य तत्रासवर्णकम् । त्रिविधं कथितं तच्च कवीन्द्रैर्गद्यवेदिभिः ।। २ ॥ चूर्णकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः । अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।। ३ ॥ तद्धि वैदर्भरीतिस्थं गद्य हृद्यतरं भवेत् । आविद्धं ललितं मुग्धमिति तच्चूर्णकं त्रिधा ॥ ४ ॥ दीर्घवृत्ति-कठोरार्णमाविद्धं परिकीर्तितम् । स्वल्पवृत्तं कठोराणं ललितं कीर्त्यते बुधैः ॥ ५ ॥ मुग्धं मृद्वक्षरं प्रोक्तमवृत्त्यत्यल्पवृत्ति वा। भवेदुत्कलिकाप्रायं दीर्घवृत्त्युत्कटाक्षरम् ॥ ६ ॥ वृत्त्येक 'देशसम्बद्धं वृत्तगन्धि पुनः स्मृतम् ।
अथात्र क्रमतश्चैषामुदाहरणमुच्यते ॥ ७॥ तत्र प्रथमं यथा
१. शुद्धचूर्णकम् स हि खलु त्रयाणामेव जगतां गतिः परमपुरुषः पुरुषोत्तमो दृप्तसमस्तदैत्यदानवभरेण भङ्ग राङ्गीमिमामवनिमवलोक्य करुणरसामृतपरिपूर्णाहृदयस्तथा भुवो भारं अवतारयितु रामकृष्णस्वरूपेण यदुकुलेऽवततार । यः प्रसङ्गेनापि स्मृतोऽभ्यर्चितः प्रणतो वा गृहीतनामा पुसः संसारसागरपारमवलोकयति ।
___ इति शुद्धचूर्णकम् १.
१[१]. अथ प्राविद्ध चूर्णकम् ___ दलदलि'सहकारमञ्जरीविगलन्मकरन्दबिन्दुसन्दोहसन्दानितमन्दानिलवीज्यमानदशदिगाभोगसुरभिसमयः समुपाजगाम । इत्यादि ।
इति प्राविद्धं चूर्णकम् १[१]. १. ख. वृत्तं कदेश। २. ख. दरदलित ।
यथा