________________
२०१२-१५ ]
७. यतिनिरूपण-प्रकरण
[ २०५
m
तेन संस्कृते यतिरक्षायां गुणः । यतिभङ्गेन दोषोऽपीति तेषामाशयः । अतएव मुरारिः"
याच्नादत्यपरांचि यस्य कलहायन्ते मिथस्त्वं वृणु,
त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ।। इत्यादि। जयदेवोऽपि*
भावं शृङ्गारसारस्वतमयजयदेवस्य विष्वग् वचांसि । इति । एवमन्येऽपि
कोष्ठीकृत्य जगद्धनं कति वराटीभिमदं यास्यति । इत्यादि, महाकवीनां स्वरसादिति विक् । प्रपि च
यतिभङ्गो नामधातुभागभेदे भवेद् यथा । पुनातु नरकारिश्चक्रभूषितकराम्बुजः ।। १२ ।। दिविषद्वन्दवन्धं वन्दे गोविन्दपदद्वयम् । स्वरसन्धौ तु न श्रीशोऽस्तु भूत्यै भवतो यथा ॥ १३ ॥ न स्याद्विभक्तिभेदे भात्येष राजेति कुत्रचित् । क्वचित्तु स्याद् यथा देवाय नमश्चन्द्रमौलये ।। १४ ॥ चादयो न प्रयोक्तव्या विच्छेदात् परतो यथा । नमः कृष्णाय देवाय च दानवविनाशिने ॥ १५ ॥
*टिप्पणी-१. 'संतुष्टे तिसृणां पुरामपि रिपो कण्डूलदोर्मण्डली
क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोवरम् । याच्चादैत्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु, त्वां वृण्वित्यभितो मुखानि स दशग्रीवः कथं वयंताम् ।।
। [मुरारिकृत-मनर्घराघवम् अंक-३, ५० ४१] २. 'साध्वी माध्वीकचिन्ता न भवति भवत: शर्करे कर्कशासि,
द्राक्षे द्रक्ष्यन्ति के त्वाममतमतमसि क्षीरनीरं रसस्ते । माक्रन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं, यावच्छ ङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवाचः ।।
जयदेवकृत-मीतगोविन्दः-स० १२, ३. देवेश्वरकृत-कविकल्पलतायां शब्दस्तबकच्छन्दोऽम्यासप्रकरणे।