________________
१३६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ४१० - ४१४
१८७. अथ मालावती द्विजविलसिता पयोधरविराजिता हारिणी,
सरसकरयुक्सुवर्णवलया लसत्कुण्डला । विरुतयुतनूपुरा मुनिदिगीशसंख्याक्षरा,
भुजङ्गपतिभाषिता जगति भाति मालावती ।। ४१० ॥
यथा
वनचरकदम्बकैरपरसिन्धुशोभाधरैः,
___ करजदशनायुधैर्जलधिनीरमाच्छादयन् । रघुपतिरुपागतः सखि ! निशाचराधीश्वरं,
रणभुवि निहत्य दास्यति तवातुलं सम्मदम् ॥ ४११ ।।
___ इति मालावती १८७. मालाधर इति पिङ्गले * नामान्तरम् ।
१८८. अथ शिखरिणी सुरूपं स्वर्णाढय श्रवणमधिताटङ्कयुगलं,
सदा संबिभ्राणा द्विजमथ सुपुष्पाढयवलयौ । सुरूपं हस्ताग्रं तदनु दधतो राजति रसः,
शिवैश्छिन्ना नागप्रथितमहिमेयं शिखरिणी ॥ ४१२ ।।
यथा
दिशि स्फारीभूतैः कविनिकरगीतैस्तव रण
स्तवैर्वात्याचद्विगुणितरयः क्षोणितिलकः । प्रतापो दावाग्निस्तव खरकरस्पर्शकठिनो,
विपक्षक्षोणीन्द्रः प्रथितवनमत्र प्रभवति' ॥ ४१३ ।। यथा वा, ममैव पवनदूते खण्डकाव्येयदा कंसादीनां निधनविधये यादवपुरी,
गत: श्रीगोविन्दः पितृभवनतोऽङ्करसहितः । तदा तस्योन्मीलविरहदहनज्वालगहने,
पपात श्रीराधाकलिततदसाधारणरतिः ।। ४१४ ।।
१. ख. प्रदति । *टिप्पणी-१ प्राकृतपैगलम, द्वितीयपरिच्छेद, पद्य १७८