________________
१२८]
बत्तमौक्तिक-द्वितीयखण्ड
[ ५० ३७१ - ३७४
पथा
१६९. प्रथ उडुगणम् । भुवनविरचितमिह लघुमुपनय ,
तदनु विधुकृतलघुमिह विरचय । उडुगणमखिलहृदयकृतसदन
मृषिकृतविरतिमनुकुरु सुवदन ! ॥ ३७१ ।। दहनगतमलकनकनिभवसन,
कटिधृतविरुतरुचिरवररसन । सुरकृतनमन जलनिधिनिवसन, __शमनुविरचय कुसुमनिभहसन ॥ ३७२॥
इति उडुगणम् १६६. 'अत्रापि प्रस्तारगत्या पञ्चदशाक्षरस्य द्वात्रिंशत्सहस्राणि सप्तशतानि अष्ट षष्ट्य त्तराणि ३२७६८ भेदास्तेषु आद्यन्तसहिताः कियन्तः प्रोक्ताः, शेषभेदाः प्रस्तार्य लक्षणीया इति दिक् ।
इति पञ्चदशाक्षरम्। अथ षोडशाक्षरम्
१७०. रामः यस्मिन्नष्टौ पादस्थित्या युक्ताः संदृश्यन्ते कर्णाः,
संशोभन्ते पादे पादे शृङ्गारैः संख्याता वर्णाः । यस्मिन् सर्वस्मिन् पादे स्याद् वेदैर्वेदैर्यद्विश्रामः,
सर्पाणामीशेन प्रोक्तः सच्छन्दः स्युः (स्तु) प्रेष्टो रामः ॥३७३।। इन्द्राद्यैर्देवेन्द्रनित्यं वन्द्यः पायाल्लोकं रामः,
लक्षाणां दातृत्वे दक्षः सर्वेषां क्षत्राणां वामः । अङ्गीकृत्यात्यन्वं पित्रा दत्तामाज्ञां शस्त्रं वेगात्,
मातुर्मूनि च्छेदे' बिभ्रद् यो वै हस्ते कम्पं नागात् ॥ ३७४ ।। इदमेवाऽन्यत्र ब्रह्मरूपकम् *इति नामान्तरं लभते ।
इति राम: १७०.
यथा
१. पंक्तित्रयं नास्ति क. प्रतो। २. ल. मातमद्धच्छेवे । * टिप्पणी-१ ग्रन्थान्तरेषु पञ्चदशाक्षरवृत्तस्योपलब्धशेषभेदाःपञ्चमपरिशिष्टे द्रष्टव्याः। * टिप्पणी-२ प्राकृतपैंगलम् द्वितीयपरिच्छेद, प० १७४