________________
८६ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[५० १८० - १८४
८६ अथ अनुकूला नूपुरमुच्चैः कलितसुरावं,
पुष्पसुहारं सरससुवक्रम् । . रूपविराजत्सवलयहस्तं,
स्यादनुकूला यदि किमिहाऽन्यत् ॥ १८० ।।
यथा
गोकुलनारीवलयविहारी,
गोधनचारी दितिसुतहारी। नन्दकुमारस्तनुजितमारः,
पातु सहारः सुरकुलसारः ।। १८१ ।।
इति अनुकूला ८६.
८७. अथ मोटनकम् वन्दे वलयद्वयसंवलितं,
हस्तद्वितयं कलयन्तममुम् । गन्धोत्तमपुष्पसुहारधरं,
नागस्य सदा प्रियमोटनकम् ॥ १८२ ॥
यथा
कृष्णं कलये वनितावलये,
नृत्ये सरसे ललिते सलये। दिव्यैः कुसुमैः कलितं मुकुटे,
स्तुत्यं मुनिभिर्वलितं लकुटे ॥ १८३॥
इति मोटनकम् ८७.
८८. अथ सुकेशी बिभ्राणा वलयौ सुवर्णचित्रौ,
___ संराजत्करसङ्गशोभमानौ । हाराभ्यां ललितं कुचं दधाना
माद्यन्तं कुरुते न कं सुकेशी ।। १८४ ॥
यथा
गोपालं कलये विलासिनीनां,
मध्यस्थं कलचारुहासिनीनाम् ।