________________
तृतीयं रड्डा-प्रकरणम्
१. पज्झटिका डगणाश्चतुरः पादे विधेहि,
अन्ते गणमिह मध्यगमवेहि । इति पज्झटिका निखिलचरणेषु,
षोडशमात्रा सर्वचरणेषु ॥ १॥
यथा
गाङ्गं वन्द्यं परिजयति वारि,
निखिलजनानां दुरितविनिवारि'। . भवमुकुटविराजिजटाविहारि, ।
मज्जज्जनमानसतापहारि ॥२॥
इति पञ्झटिका ।
२. अडिल्ला [अरिल्ला] सर्वे डगणा अरिल्ला छन्दसि,
नायकमत्र नयति तं नन्दसि । षोडशमात्रा विदिता यस्मि
न्नन्ते सुप्रियमपि कुरु तस्मिन् ॥ ३ ॥
यथा
हरिरुपगत इति सखि ! मयि वेदय,
कुञ्जगृहोदरगतमपि खेदय । इह यदि सपदि सविधमुपयास्यति,
रदवसनामृतमिदमनुपास्यति ॥ ४ ॥ __ इति अरिल्ला।
३. पादाकुलकम् गुरुत्लघुकृतमण -नियमविरहितं,
____ फणिपतिनायकपिङ्गलगदितम् । रसविधुकलयुतयमकितचरणं,
पादाकुलकं श्रुतिसुखकरणम् ॥ ५ ।।
१. म. विनिवासव। २. म. अडल्ला। ३. ग. गुण ।